________________
२४५
विभक्त्यर्थनिर्णये । पूर्वोत्तोभयधर्मवत्वमिति । ननु चाक्ष षप्रयोजकत्वं यदि चाक्षुषोपधानप्रयोजकत्वं तदा निमौलितैकलोचने काणपदप्रयोगापत्तेः यदि चाक्षुषस्य योग्यप्रयोजकत्वं तबापि प्रयोजकत्वमुपधायकत्वं तदापि पूर्वोत्तो दोषः निमौलने मति सन्निकर्षाोग्यस्यानुपधानात् यदि योग्ययोग्यत्वं तदा पुष्पकादिना गोलकच्छिद्रमुद्रण काणपदाप्रयोगप्रसङ्गः तत्र गोल के निर्गमहारकसंनिकर्षयोग्यतायाः सत्त्वात्पुष्पकाद्यपनये चाक्षुषसंनिकर्षयोः सम्भवादिति निरूढलक्ष्यतावच्छेदकमध्येकं न सम्भवतीति चेत् न अविकृतगोलकत्वस्यैव योग्यतात्वात् सपुष्पकगोलके तहिरहादेव काणपदप्रयोगसम्भवात् विकारास्तु गोलकनिष्ठ प्रत्यासत्या चाक्षुषप्रतिबन्धकतावच्छेदकतयाऽनुगमनीयाः अथ वा गोलकहयप्रयोज्य चाक्षषाभावचाक्षषोभयवत्त्वमवच्छेदकतासंबन्धेन काण पदस्य लक्ष्यतावच्छेदक निमौलितैकलोचनेऽतिप्रसङगबारणायाहष्टाहारकप्रयत्नावरुद्धगोलकवदन्यत्वेन तविशेषणीयं गोलकविकारादेईरदृष्टजनकप्रयत्नसाध्यस्वात् काणे प्रसगवारणायादृष्टाहारकत्त्वं प्रयत्ने विशेषणं पूर्व निमीलितैकलोचनस्य कालान्तरण गोलकविकारे सति तथाबिधगोलकवदन्यत्वस्य विकृतगोलके शरीरे सत्त्वात् आहारपरिणामानादिना शरौरभेदादिति न काणपदाप्रसङगः यदि च काणस्याविकृतांक्षिनिमौलने तथाविधगोलकवदन्यत्वविरहात् खाप चोभयघटकचाक्षषस्य विरहात्काणपदाप्रसङ्ग इति विभाव्यते तदा तथाविधातथाविधगोलकहयवदन्यत्वविशेषणमुभय घटक