________________
विभक्त्यर्थनिर्णये।
२४३ ति तयोश्च घटितघटकभावो दर्शित एवेति शेवालेन सह जलेन संयुज्यत बकः वामतटेन सह दक्षिण तटेन संयुज्यते नदोत्यादौ तौययोजन्यत्व लक्षणं हेतुत्वमर्थ: न तु प्रतियोगित्वमर्थो बाधात् न वाऽाधेयत्वं साक्षात्संसर्गावच्छिन्नाधेयत्वस्य धात्वर्थान्वयाव्युत्पत्तेः एकक्रियाप्रयोज्यत्वं सहाथ: एवं शैवालजन्यसंयोगप्रयोजकक्रियाप्रयोज्यजलजन्यसंयोगाश्रयो बक इति शाब्दबोधः । न चान समानकालिकत्वं सहार्थः तथासति वायुना सह शैवालेन सह संयुज्यते बक इति प्रयोगप्रसङ्गात् सहाथै प्रयोज्यत्वप्रवेशात् शाखया सह क्षेण संयुज्यते कपिरित्यत्राप्युपपत्तिः । एवमन्यादृशोऽपि सहार्थः सुधौभिरूह्यः । इत्थं च "सहयुक्त प्रधाने"इति सूत्रस्य सहाथयोगे प्रधानक्रियान्वयिविभक्त्यर्थसजातीये गुणक्रियान्वयिन्यर्थे तृतीया भवतीत्यर्थः सहशवदतुल्यार्थाः साकंसाधसमंशबदा बोध्याः । अङ्गविकारार्थिकांटतीयां ज्ञापयति। येना
गविकार"इति सूत्रम् । अस्यार्थः काशिकारत्तौ अङ्गशब्दो अङ्गसमुदायिनि शरीरे वर्तते येनेति तदवयवो हेतुत्वेन निर्दिश्यते येनाङ्गन विकृतेनाङ्गिनो विकारो लक्ष्यते ततस्तुतीयोविभक्तिर्भवति इति लक्ष्यत्वं प्रयोज्यत्वे कि. कृतस्य प्रयोजकत्वं विशेष्ये बाधे विकार विशेषणे पर्यवस्यति तथा चावयवस्य प्रकृत्या लाभात्ततीयाया विकारोऽर्थः यथा अक्षणा काण इत्यत्र चाक्षुषप्रयोजकगोलकद्दयाभाववान् तथाविधगोलकवान् काणपदार्थ: गोलकस्य स्खच्छिद्रद्वारा चक्षुषो निगमेण संनिकर्षसम्पादनेन चाक्षुप्रयोजकत्वं चक्षुषो गोलकान्तर्वतित्वात् न तु