SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। २४१ व्यासज्यत्तित्वस्यान्यत्र दूषितत्वादिति कारणताया निरूपकावन्वयव्यतिरेकी तदवच्छेदकत्वनिरूपकाविति बोध्यम् । क चिदभेदोऽपि सहार्थः यथा पटेन सह घटं साक्षात्करोतीत्यत्र हतीयाहितीययोः कर्मत्वमर्थः तच्चाधेयत्वं सहार्थस्याभेदस्य विशेषणे हतीयार्थविशेष धात्वथे द्वितीयार्थोऽन्वेति। एवं घटवत्तिलौकिकविषयताकसाक्षात्काराभिन्नघटत्तिलौकिकविषयताकसाक्षात्काराश्रयत्वं वाक्यार्थः न चात्र समानकालिकत्वं सहार्थः तथासत्यव्यवहितज्ञानभेदेन तथाप्रयोगप्रसङ्गात् न चेष्टापत्तिः तथासति रूपेण सह गन्धं साक्षात्करोतीति प्रयोगप्रसङ्गादिति । जात्या सह व्यक्तिं घटत्वेन सह घटं वा जानातीत्यत्र सामग्रीघटकसामग्रीकत्वं सहाथ: जातित्तिविषयताकतानसामग्रीघटकव्यक्तिष्टत्तिविषयताकज्ञानाश्रयत्वं घटत्वत्तिविषयताकत्तानसामग्रीकघटष्टत्तिविषयताकज्ञानाश्रयत्वं च वाक्यार्थ: न चान समानकालिकत्वमभेदो वा सहार्थस्तथासति जात्या सहाभावं घटत्वेन सहे पटं वा जानातौतिप्रयोगप्रसङ्गात् जात्यभावयोघंटपटयोश्च समूहालम्बनसम्भवात् प्रत्यक्षे व्यतीन्द्रियसन्निकर्षो जातीन्द्रियसन्निकर्षघटक: अनुमितौ व्यापकताया जानं तदवच्छेदकत्वज्ञानघटक शाब्दबोधे पदार्थस्योपस्थितिस्तदवच्छेदकोपस्थितिघटिकाप्रयोजिकेति घटकत्वं व्यापकत्वमिति प्रमायामोदृशसामग्री सम्भवति न तु चमे अत एव भ्रमस्थले घटत्वेन सह पटं जानातीति सहपदघटितो न प्रयोग: किं तु सहपदशून्य एवेति । जात्या सह व्यक्ति भासते इत्यत्र भासते
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy