________________
२४०
तृतीयाविभक्तिविचारः। विषयत्वेन तथाविधे धात्वर्थे तस्य तिर्थाश्रयत्वे तस्य घटत्वेऽन्वयः । एवं समवायत्तेः प्रतियोगितात्तिज्ञानज्ञाप्यावच्छेदकत्वस्य ज्ञापकतानविषयो यस्तहिषयकज्ञानज्ञाप्यायाः प्रतियोगितात्तिज्ञानज्ञाप्यावच्छेदक ताया आश्रयो घटत्वमिति शाब्दबोधः । अभावनिरूपकः प्रतियोगितावच्छेदकविशिष्टः प्रतियोग्येव प्रतियोगित्वतदवच्छेदकत्वनिरूपकः स तु निरूपकत्वेन सहार्थे निविशते न तु तत्त्वेन इति न चात्रापि समानकालिकत्वं सहार्थस्तचैव प्रतियोगिताकर्मकावच्छेदकस्य विशे. षणतया विशेष्यतया चान्वय इति वाच्यम् । तथासति पटत्वेन सह घटत्वमच्छिनत्तौति प्रयोगप्रसङ्गात् पटघटाभावप्रतियोगितावच्छेदकतयोः समानकालिकत्वबाधात् । ननु यथा पुत्रेण सह ग्राम गच्छतीत्यत्र पद्यतिकर्मकस्यैव धात्वर्थस्य विशेष्यत्वे सह प्रयोगः साधुस्तथानापि समवायेन सहेत्यत्व प्रतियोगिताव्यक्तरेकस्योभयकर्मत्वाभवत्युपपत्तिः पटत्वेन सह घटत्वमित्यवैकप्रतियोगित्वव्यक्तेरुभय कर्मत्वासम्भवान्नोपपत्तिरिति चेत् न महानसौयत्वेन सह वह्नित्वमवच्छिनत्तीत्यवेकप्रतियोगित्वव्यक्तेरुभयकर्मत्वासम्भवादसाधुत्वप्रसङ्गात् अवच्छेदकधर्मभेदेन प्रतियोगिताभेदात् । एवं चक्षःप्रतियोगिकत्वेन संयोगे चाक्षुषकारणतामवच्छिनत्तीत्यत्रापि समाननिरूपकत्वं सहाथ: न तु समानकालिकत्वं तथासत्यद्भूतरूपत्वेन सह संयोगत्वमवच्छिनत्तीति प्रयोगप्रसङ्गात् न चाव कव्यक्तिकर्मकत्वसम्भवः कर्मणः कारणताया अवच्छेदकधर्मभेदेन भेदादवच्छेदकताया