________________
२३७
विभक्त्यर्थनिर्णये। वक्तमुचितत्वात् नानार्थ स्थैकत्र योग्यताविरहेऽप्यपरवान्वयस्य दर्शनाच्च यथा सैन्धवो नील इत्यादौ तत्कुतो न दर्शितप्रयोगः पाने क्षौरकर्मत्वान्वयसम्भवादिति चेत् मैवं नानार्थशब्दस्यापि हि नानाविधार्थतात्पर्यनानाविधार्थान्वययोग्यार्थकेनैव पदेन सहाकाङ्क्षा अत एव लवणाश्वतात्पर्ये सति सैन्धवौ नौलाविति न प्रयोगः नौलावयासम्भवात् न च लवणेऽयोग्यत्वान्न नौलान्वयः आकाङ्क्षा तु वर्तत एवेति वाच्यं तथा सत्यश्वे नौलान्वयबुद्धिप्रसङ्गात् तस्मात् तात्पर्यविषयीभूतधास्यतिपदार्थ खार्थान्वयबुध्यभावप्रयोजकाभावप्रतियोगित्वस्वरूपाकाङ्क्षा द्वितीयान्तक्षौरपदे नास्ति क्षीरमितिपदे सत्यप्यन्वयबुद्धेरभावात् न चैवमग्निना सिञ्चतीत्यत्राप्याकासाविरहान्न शाब्दवोध इति वाक्यम् । अग्निपदस्य ट्रवद्रव्यपरतायामाकासासम्भवादर्थभेदेनाकाङ्काभेदाभावात् वकिपरतायामप्यकाङ्गासल्वात् तात्पर्यविषयत्वस्यापरपदार्थविशेषणत्वात् आकाशाग्रहधर्मिपदस्थार्थं तविशेषणत्वाविवक्षणात् अग्निनेति पदस्य धर्मित्वे नाकासाविरहः किं तु योग्यताविरह: पाकलाक्षणिकसिञ्चतिपदस्य धर्मिलेऽप्यग्नितात्पर्यकस्याग्निनेतिपदेन सहाकाङ्क्षा सम्भवत्येवेति । यत्र क्षौरमितिपदस्य क्षौरनौरयोरुभयोरुपस्थापकत्वं तत्रोभया कस्य पय इति पदस्येवाकाङ्क्षाया अवैकल्यात् क्षौरकर्मत्वस्य पाने नौरकर्मत्वस्य धारणेग्वबोधो भवत्येवेति । यत्र द्वितीयान्तपदं विनैव सागरैः सहशिशुर्धास्यतौति प्रयोगः तत्र कर्मत्वान्वयवो