________________
२३६
तृतीयाविभक्तिविचारः। पृथिवीरतिश्च तदुभयकर्मत्वमेकविधे धात्वर्थे विधानेइन्वेति तथा च देवाधिनाथकत ताकपर्वताप्रीतिकर्मताकविधानसमानकालिकपृथिवीरतिकर्मताकविधानानुकल कृतिमान् क्षितीश इत्यन्चयबोधः । तथाविधनानार्यान्विततथाविधविभक्त्यर्थ स्यैकैकं सहार्थ स्व विशेषणे विशेष्ये समानानुपूर्वीकतिङन्तनानाविधधातुप्रतिपाद्ये नानाविधेर्थेऽप्यन्वयः यथा “शिशुः पयो धास्यति सागरैस्मह" इत्यत्र धास्यतिपदेन धयत्यर्थस्य पानस्य दधात्य- . थस्य धारणस्य भावित्वस्य कृतेश्च स्मृतिर्जन्यते पयःपदेन नौरनौरयोहितीयया कमत्वस्य तृतीयया कर्तृत्वस्येति । सागरकतत्वं नीरकर्मत्वं च धारणे क्षौरकर्मत्वं पाने योग्यताबलाहा त्पत्तिवैचिल्याच्चान्वेति एवं सागरकतताकनौरकर्मताकधारणसमानकालिकक्षौरकर्मताकभाविपानानुकूलकृतिमान् शिशुरित्यन्वयबोध: महार्थान्विते विशेषणे विशेष्ये वा धात्वर्थे एकत्र कर्मवाद्यन्वययोग्योपस्थापकपदस्य न तिङन्तेन सहाकाङ्क्षा अत एव पयःपदेन वीरमानोपस्थितौ न तथा शाब्दबोध: न वा क्षौर शिशुर्धास्यति सागरैः सहे"ति प्रयोगः । ननु शिशुः क्षीरं धास्यति पयो वेत्यत्र धास्यतिपदेन सह हितीयान्तस्य क्षौरपदस्य चौरमात्रीपस्थापकपयःपदस्य वा आकाङ्क्षाया दृष्टत्वात्प्रकृते कुतो नाकाङ्क्षा न च प्रकृते तिङन्तेन धारणस्याप्युपस्थापनेन धारणे क्षीरकर्मत्वान्वययोग्यताया विरहात् पानेऽपि न क्षौरकर्मस्वान्वयाकाङ्क्षति वाच्यं तावताऽप्यर्थभेदेऽप्यभिन्नायाः शब्दधर्मवरूपाकाङ्क्षाया अवैकल्यात् योग्यताविरहस्य