________________
विभक्त्यर्थनिर्णये छिन्नाधेयत्वस्य च योर्योगविभागेन सप्तम्यर्थत्वप्रतिपादनात् । यहा यादृशसंसर्गेण क्रियायामन्वयस्तादृशसंसगंणैव नामार्थे ऽन्वयो विवक्षित: एवमाधेयत्वसामान्यस्य सप्तम्यर्थत्वेऽपि न क्षतिस्तस्य दर्शितपरम्पराघठिताधेयत्वीयस्वरूपसम्बन्धेन क्रियायामन्वयात् नामार्थे तु संयोगाद्यवच्छिनाधेयत्वीयस्वरूपसम्बन्धेनेति दशितपरम्पराघटिताधेयत्वीयस्वरूपसम्बन्धेनान्वयसम्भवात्मप्तम्यर्थाधेयत्वकारके नाव्याप्तिः । नामार्थान्वयस्तु नामार्थविशेष्यकशाब्दबोधे बोध्यः अन्यथा सुपा लिङ्गसयातिरिक्तस्वार्थे प्रकृतिभूतनामार्थविशषणकशाब्दजनकत्वनियमादसम्भवापत्तेः । तथापि गगनं न पश्यतोत्यादो द्वितीयादेः स्वार्थविशेषणकनञर्थविशयकबोधजनकत्वाव्याप्तिरिति नाम्नि निपातातिरिक्तत्व विशेषणम् । यदि तिर्थकर्ट कर्मणोरपि कारकत्व तदा न्यायमते तत्राव्याप्तिः तिङः प्रथमान्तार्थविशेष्यकशाब्दप्रयोजकत्वादिति विभाव्यते तदा नामान्वयप्रयोजकतावच्छेदके तिर्थतानवच्छेदकत्व विशेषणम् । सुप्पदस्थाने विभक्तिपदं च बोध्यम् । शाब्दिकमते च नाव्याप्तिरतो न तद्दिश षणम् । ननु यदि क्रियायां नामार्थे चान्वये एकसंबन्धावच्छिनलं विशेषणम् तदा सप्तम्यर्थकारके ऽव्याप्तिर्दर्शितपरंपराघटिताधेयत्वीयसंसर्गेणाधेयत्वविषयकनामार्थविशेष्यकशब्दाप्रसिद्धेः तादृशसंसर्गकाधयत्वविषयकशाब्दबोधीपयिकाकाङ्गाया नानि विरहात् तथा च तोदृशशाब्दप्रयोजकतानवच्छेदकत्वघटितलक्षणाप्रसिया सर्ववैवासंभवः । षष्ठौं विना पदान्तरासमभिव्याहृतविभक्तोनामर्थस्य क्रियान्व