SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १९२ द्वितीयाविभक्तिविचारः। त्वस्य ज्योत्नानिष्ठस्याध्ययनत्वे विरहेऽपि हिनदिनाध्य.. यनस्थले न दर्शितप्रयोगः धर्मस्यान्वयितावच्छेदकप्रतियोगिक सम्बन्धेनान्बयोपगमात्तादृशस्य मासटत्यभावप्रतियोगिताबच्छेदकत्वस्य सत्वे विरहात् सत्ववतो द्वित्वदिनाध्ययनस्य सत्तायां न दर्शितप्रयोग: एवं क्रोशं कुटिला नदीत्यत्र क्रोशवत्यभावप्रतियोगित्वस्य संयोगावच्छिन्नप्रतियोगित्वीयनिरूपितत्वसम्बन्धेनावच्छेदकत्वेन्वयः अवच्छेदत्वादेस्तु प्रदर्शितरीत्याऽन्वयो वोध्यः कुटिलत्वं तु तियगमनजन्यावयवसंयोगसामामाधिकरण्यं तदभावः सरलत्वं न च तिर्यग्गमनवदवयवसमवेतत्वं तत् तथा सति कुटिलदण्डादौ कौटिल्यानुपपत्तेः तदवयवे तदा तिर्यग्गमनस्याभावात् सामानाधिकरण्यमेककालावच्छिन्नं बोध्यं तेन पूर्वं कुटिलेऽनन्तरं सरले दण्डे न कौटिल्यप्रतीतिव्यवहारौ रूपादौ कौटिल्यप्रतीतिव्यवहारयोरभावात् सामानाधिकरण्यंट्रव्यत्वविशिष्टं बोध्यमिति वस्तुतस्तु मासमधीते इत्यत्र मासात्मककालिकविशेषणतावच्छिन्नमाधयत्वं दितीयार्थः तन्मासनिरूपितमध्ययने न्वेति हिवदिनाध्ययनेन निरुक्तमा धेयत्वमिति न तत्र दर्शितप्रयोगः एवं क्रोशं कुटिला नदीत्यत्र क्रोशत्वमध्वपरिमाणविशेषः तद्वान् क्रोशः क्रोशत्वव्यापकसंयोगावच्छिन्नमाधेयत्वं दितौयार्थः तत् क्रोशनिरूपितं कुटिलेन्वेिति कुटिलस्य तादाम्येन नद्यामन्वय इति मासं कल्पणौत्यत्र कल्यागजनकः कल्याणशब्दार्थ: कल्याणजनकत्वविशिष्टे मासौयस्य व्यापकत्वस्य निरुताधेयत्वस्य वाऽन्वयोपगमा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy