________________
विभक्त्यर्थनिर्णये।
१९१ नचापोगे दितीयाविरहे संज्ञावैयर्थ्यमिति वाच्यं संज्ञाया दर्शितस्थले षत्वाभावफलकत्वात् उपसर्गसंज्ञापवादकत्वादिति । "कालावनोरत्यन्तसंयोगे" इति सूत्रकालावयवाध्वावयववाचिशब्दाभ्यामत्यन्त योगेऽर्थ दितीया स्यादित्यर्थकम् अत्यन्तसं योगोऽवच्छिन्नत्वं तवावच्छेदको देशविधया कालविधया दिविधो दिविधमपि तयापकत्वपर्यवसितं व्यापकत्वमभावाप्रतियोगित्वं तनाभावः प्रतियोगित्वं खण्डशो द्वितीयार्थ: यदि चावच्छेदकत्वं विना व्यापकत्वमतिप्रसक्तमिति मन्यते तदावच्छेदकत्वमपि दितीया) निविशते एकपदार्थानामपि व्यु त्यत्तिवैचिच्यण परस्परान्वयोऽभ्युपेयते व्यापकतावकेदकः संवन्धो दैशिक: संयोगादिः कालिकस्तु विशेषणताविशेषः तया चायं मासमधीत इत्यत्र मासस्याधेयत्वेन संवन्धेनाभावे तस्य प्रतियोगितायां तस्याः कालिकसंबन्धावच्छिन्नप्रतियोगित्वीयनिरूपितत्वसंबन्धेनावच्छेदकत्वे तस्यान्वयितावच्छेदकतावच्छेदकसंसर्गावच्छिन्नावच्छेदकत्वीय स्वरूपसंसविच्छिन्न प्रतियोगितयासंबन्धनाभावे तस्य धर्मे तस्यान्वयितावच्छेदकीयेनाध्ययनत्वसंबन्धेनाध्ययनान्वयः एवं मासव्यापकाध्ययनकर्तृत्ववानयमित्यन्वयबोधः प्रतियोगिताया निरूपितत्व संसर्गे कालिकसंवन्धानुप्रवेशात् संयोगेन मासवृत्यभावप्रतियोगित्वस्योध्ययने सत्वेऽपि नान्वयवोधानुपपत्तिः । अवच्छेदकत्वस्य प्रतियोगितासंसर्गेऽन्वयितावच्छेदकसंसर्गस्यानुप्रवेशात् संयोगेन ज्योत्स्नावतः प्रासादादेसत्यभावप्रतियोगितायाः संयोगसंसर्गावच्छेदक