SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १७९ विभक्त्यर्थनिर्णये। क्षादन्वयानुपगमात् । एवं धिगध्ययन होनं जनमित्यत्र पाण्डित्याभावः धिगव्याधमित्यत्र कारुण्याझाव: अक्षान्तंधिगित्यत्र क्रोधः धिक् स्वस्तिवाचनिकानित्यत्र लोभः धिकपदार्थस्तत्र हितीयार्थसम्बन्धस्यान्वय इति । अकरुणं धिगित्यत्र परकौर स्य सुखस्य दुःखहानेर्वा देष: धिक् ऋद्धमित्यत्र हन्त्वं धिक् लुब्धमित्यत्र परस्त्रापहारित्वं विकपदार्थः एवमन्यत्राप्यूहनामिति । धिक्कृष्णाभक्तमित्यत्र भक्तिमयोज्यगतेविरहः अभक्तिप्रयोज्याधोगतिर्वा धिक्पदार्थ इति । सर्वनाम्नामिव बुविविशषप्रकारत्वोपलक्षितधर्मवति धिक्पदस्य शक्तिरिति नानुगम: उपर्युपरिलोकं रविरित्यत्र ध्रुवावधिकपरत्वनिरूपितापरत्वाधिकरणदेश उपरिपदार्थस्तम्य चाधयतया प्रातिपदिकार्थेऽन्वयः परत्वान्वयिसमवेतत्वं हितौयार्थः तथा च लोकसमवेतववावधिकपरत्त्वनिरूपितापरलाधिकरणदेशत्ती रविरित्यन्वयबोध: अधोऽधश्चन्द्रमसं रविरित्यत्व शेषावधिकपरत्वनिरूपितापरत्वाधिकरणं देशोऽध:पदार्थ: शेषं पूर्ववत् तथा च शेषावधिकचन्द्रमस्ममवेतपरत्वनिरूपितापरत्वाधिकरणदेशत्तो रविरित्यन्वयदाध अध्यधिगगनं रविरित्या मध्यभागोऽधिशब्दार्थस्तस्यान्वयः पूर्ववत् द्वितीयाथः सम्बन्धः गगनशब्दो वायुमण्डलार्थकस्तथा च वायुमण्डलसम्बन्धिमध्यभागवृत्ति रविरित्यन्वयबोधः । वायुमण्डलमध्यभागस्तूदयास्ताचलान्तराभूतदेशावधिकपरत्वनिरूपितापरत्वाश्रय: सामान्यतस्तु अवयवावधिकावयवसमवेतपरत्वनिरूपितापरत्वाश्रयो मध्यभागो
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy