________________
१७६
द्वितीयाविभक्तिविचारः। विशेषितस्य सप्तम्यर्थस्य निरूपकत्वेन निरूपकनिरूपकत्वेन वा संबन्धेनावच्छिन्नस्याधेयत्वस्यान्वय इति एष्वथेंध्वभिनिविष्टानामिति फणिभाष्यप्रयोगदर्शनात् सो चकारोऽधिकतया कचिल्कमसंज्ञानिषेधं सूचयति यथा पापेऽभिनिविशत इति । उपवसति वैकुण्ठमित्यादौ वैकुण्ठादेः कर्मत्वोपपत्तये "उपान्वध्याङ्स” इत्यनुशासनमुपादिपूर्वकस्य वसतेराधारः कर्मसंत इत्यर्थकम् । उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरिरित्यत्र भूयःकालावच्छिन्नसत्वं वसेरर्थस्तत्त्र कर्ट संबवघटितपरम्परासंसर्गावच्छिन्नमाधेयत्वं द्वितीयार्थो धात्वर्थेऽन्वेति यत्नाभोजनमुपवसरर्थस्तत्र कर्मसंज्ञानिषेधक"मभुक्त्यर्थस्य तु ने”ति वार्तिकम् । तेन वनेतूपवसतौत्येव प्रमाणम् । एकादशौसुपवसेवादशौमथवा पुनः । इत्यादावुपवसरभोजनं नार्थः किं तु दोषादुपात्तस्य गुगौः सह वासः ।
उपात्तस्य दोषेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥ इत्यार्षपरिभाषणादतो न हितौयानुपपत्तिरिति वदन्ति । वस्तुतस्तूपवसेरभोजनार्थकत्वेष्यकर्मकत्वमक्षतमेवेति देशकालादीनामकर्मककर्मत्वं वार्तिकेन ज्ञापितमिति न द्वितीयानुपपत्तिः कालिकाधेयत्वस्य द्वितीयाधेयत्वं न तु कर्ट सम्बन्धघटितपरम्परावच्छिन्नाधेयत्वस्येति । शौङादीनां वस्यन्तानामनुपसृष्टानामाधारस्थाधिकरणसंज्ञा उपसृष्टानों तु कर्मसंन्जेत्यन्यपूर्वकं कर्म विशेयमिति। "क्रुधद्रुहोरुपसृष्टयोः कमें"त्यनुशासनम् । क्रु