________________
द्वितीयाविभक्तिविचारः ।
नियममात्वार्थकता न युज्यते गत्यादिसूत्रेणैव गत्याद्यर्थक भिन्नानां कर्तरि कर्मत्वविकल्पावगमेन हक्रोरित्यनुशासनस्य वैयर्थ्यप्रसङ्गात् । तस्मात् गत्यादीनामेव कर्ते - तिनियमे गत्याद्यर्थकान्यधातुकर्त्तरि व्यवच्छिन्नस्य प्रतिप्रसवार्थं विधानार्थं वा हृक्रोरित्यस्य पृथगारम्भः ण्यन्तयोर्हृक्रोरण्यन्त हृकृकर्तरि कर्मत्वं विकल्पेन ज्ञापयति यथा हारयति भारं भृत्येन भृत्यं वा प्रभुरित्यव नृत्यपदोत्तरतृतीयाद्दितौययोः कृतिलचणं कर्तृत्वमर्थो हरयोऽन्वेति गत्यर्थकतया हृञः कर्तरि कर्मत्वस्य नित्यताप्राप्तौ विकल्पार्थं ग्रहणं सेतुं कारयति वानरैर्वानरान्वा राम दूत्यव कृञो यत्नार्थत्वे वानरपदोत्तरतृतीयाहितीययोः समवेतत्वमर्थः उत्पादनार्थत्वे तु कृतिरर्थ इति मन्तव्यम् । अत्र धात्वर्थ कर्मणः प्रयोगेऽप्रयोगे वा धात्वकर्तरि जिर्थकर्मणि तिङादयः कर्मप्रत्यया भवन्ति यथा दिगन्तं गम्यते गमितो वा रिपुर्गम्यते गमितो वा रिपुः, धर्मं बोध्यते बोधितो वा माणवकः बोध्यते बोधितो वा माणवकः, मिष्टं भोज्यते भोंजितो वाऽतिथिः भोज्यते भोजितो वाऽतिथिः पयः पाव्यते पायितो वा शिशुः पाव्यते पायितो वा शिशः, ब्रह्म व्याहार्यते व्याहारितो वा माणवकः व्याहार्यते व्याहारितो वा माणवकः, माममास्यते चासितो वाऽतिथिः। आस्यते आसितो वाऽतिथिः, तदुक्तम् ।
१७२
प्रधानकर्मण्याख्येये लादौना हुर्दिकर्मणाम् । चप्रधाने दुहादीनां स्यन्ते कर्तुश्च कर्मणः ॥ इति यब या कर्ट एवं द्वितीयार्थस्तव तादृशकटं