________________
विभक्त्यर्थनिर्णये। प्रयोगः समानकर्तकत्वबाधात् न वा पुत्रधनेच्छायां विद्यमानायां चिकोर्षतौतिप्रयोगः कतिविशेष्यत्वबाधादिति वदन्ति तदव विषयतामात्रेण कर्मत्वं न सम्भबति पाकत्वं चिकीर्षतौतिप्रयोगापत्तेः उद्देश्यतया तथात्वे तु ओदनं बुभुक्षत इत्यादावोदनस्यानुद्देश्यत्वात् कर्मत्वानुपपत्तिरित्यादिकं चिन्तनीयम् । मणिकृतस्तु चिकीर्षाकृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयेच्छा पाक कृत्या साधयामीति तदनुभवात् कृतिमाध्यत्वप्रकारकफलेच्छावारणाय क्रियाविषयकत्वं विशेषणं कृतिसाध्यत्वबमजन्यायाः कृत्यसाध्यक्रियाविषयिण्या इच्छाया वारणाय कृतिसाध्यत्वं वास्तवं विशेषणम् अनुभवस्तु कतिसोध्यत्वेन पाकमिच्छामीत्याकारक एव पाकं चिकोर्षतीत्यत्र प्राधान्येन पाकस्येच्छाविषयत्वमनुभूयते न तु कृतेः प्राधान्यमुद्दे श्यत्वं धातोश्च सन्प्रत्ययाभिधेयेच्छाप्रकारवाचित्वं तेन कृञ: कृतिसाध्यत्वं तत्यकारकत्वं वार्थस्तच प्रकारितया स्वरूपेण वा संसर्गेणेच्छायां सन्नथेऽन्वेति । ओदनं बुभुक्षत इत्यत्र भोजनविशेष्यतयौदनस्यानुभवात् भोजनस्य कर्मतासंसर्गेणौदनेऽन्वयः तस्य च विषयतया सन्नर्थेच्छायामन्ययः अत्र कृतिसाध्यत्वस्य खनिरूपककृतिसामानाधिकरण्येनौदनस्य स्वकर्मकभोजनजनककृतिसामानाधिकरण्येनापि सन्नर्थेच्छायामन्वयः तेनान्यदीयकृति साध्यत्वभोजनीयकर्मत्वविषयकेच्छायां विद्यमानायां न तथा प्रयोग: दर्शितलक्षणचिकोर्षायाः प्रवृत्तिहेतुत्वात् चिकोर्षतीत्यवत्थन्धात्वर्थनिर्वचनादिति वदन्ति । सोहण्डोपाध्यायास्तु पाकं चिकीर्ष