________________
द्वितीयाविभक्तिविचारः । यार्थकतेः पारतन्च्येण जिविशेषणकत त्वेऽभेदान्वयोपगमेन दर्शितप्रयोगवारणमम्भवात अन्वयभेदेन तृतौयाहितीययोर्व्यवस्थासम्भवात् । धात्वर्थकर्तुत्वं निर्वाहकव्यापारश्च खण्डशो णिजथं इति नैकदेशान्वयशङ्कति वदन्ति । तच्चिन्त्यं चैवं पाचयतीत्यादिप्रयोगाभ्युपगमे गत्यादिसूत्रप्रणायनवैयर्थ्यप्रसङ्गात् नियमार्थतापक्षे सूत्रण गत्यादिकानामेव कर्तु: कर्मत्वज्ञापनात् न च गत्यादिकर्ता कमवेति नियमस्य सूत्रेण ज्ञापनात् देवदत्तेन ग्रामं गमयतीत्यादिको न प्रयोगः प्रयोगश्च अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाकेत्यादिक उपपद्यत इति वाच्यम् । गत्यादिकानामेव कर्ता कर्मेति गत्यादिकानां कर्ता कम वेति विविधनियमस्य सूत्रेण जापनात् देवदत्तेन गमयतोत्यादिप्रयोगानुपपत्त: अयाचितारमित्यादेरन्यथोपपत्तेश्च तथा हि सुतां ग्राहयितुं देवमयाचितारं न शंशाक न कृतवानित्यर्थे देवदेवस्य ग्राह्यर्थेन ह्यन्वय: अत एव जायाप्रति ग्राहितगन्धमाल्यामित्यत्न कर्मप्रत्ययस्य तस्य गौणकमणि साधुत्वमवसीयते अन्यथा ण्यन्त कतुं श्च कर्मण इत्यनुशासनेन धात्वर्थकर्तरि कर्मण्येव तस्य साधुतया गौणकर्मण्यसाधुत्वप्रसङ्ग इत्यादिक वच्यते । एवं सनन्तस्य धातुत्वात् सन्नथेंच्छाविषयस्य कर्मत्वं भवति । यथा पाकं चिकौर्षत्योदनं बुभुक्षत इत्यादौ पाकौदनयोः कृतिभोजनयोर्धात्वर्थयोः सन्नर्थेच्छायां विशेष्यतासमानकत कत्वाभ्यां संवन्धाभ्यामन्वयः तेनान्यदीयकतिभोजनविषकेच्छासत्व चिकीर्षति बुभुक्षते वा इति न