SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । १५७ गत्या दिसूले कर्तृशब्दो न कर्तृसंज्ञाविशिष्टार्थकः किं तु दर्शित स्वतन्त्रार्थक इति कर्मसंज्ञा न कर्तसंज्ञामुपजौवति एवं हेतुमति गिजि "तिसूत्रस्य कर्ट प्रयोजको हेतुरिति व्याख्यानेऽपि कर्तृ शब्दः स्वतन्त्रार्थक एवेति णिजुत्यत्तावपि न कर्तृ संज्ञापेक्षेति न कर्मसंज्ञा कर्तृ संज्ञामुपजीवति एवं गुणक्रियाकारकं न प्रधान क्रियाकारकं भवतोति नान्तरङ्गतयाऽपि कर्तृसंज्ञा बलवतीति न चैवमरात्यादेः प्रधानव्यापारानाश्रयत्वे दिगन्तस्य कर्तुप्सिततमत्वाभावात् कर्मसंज्ञानुपपत्तिरिति वाच्यम् । पिजन्तस्य धातुत्ववादिनां गुणफलवतो दिगन्तस्य गां प्रयो दोग्धात्यादौ पथस इवाकथितमित्यनेन कर्मसंज्ञासम्भवात् अत एवाकथितसूत्राव्यवधानेन गत्यादिसूत्रमुक्तं नन्वेवं पाचयति चैत्रेण मैत्र इत्यादौ तृतीयानुपपत्तिः चैवस्य प्रधानव्यापारानाश्रयतया कर्तृत्वाप्रसक्तरिति चेन्न नलेनाभिषिञ्चतीत्यादाविव कमणः करणतया चैत्रेण पाचयतीत्यत्रापि करणार्थकतृतौयोपपतः चैत्रव्यापारजन्यत्वस्वरूपश्चेत्रेणेति तृतौयान्तार्थः पच्यर्थेऽन्वेति तत्र फले व्यापारे चान्वय इत्यन्यदेतत् । भ वतु वा प्रधानीभूतस्य धात्वर्थस्य नदन्विततिर्थस्य वाऽऽ श्रयः कर्ता स च धातुर्भूवादिरणिजन्तो विजाद्यन्तश्च एवमणिजन्तधात्वर्थक तथा प्रयोज्यस्य चेत्रेण पाचयतोत्यव तदर्थकतृतौयोपपत्तिः णिजन्तार्थकतृतिया प्रयोजकस्य मैत्रेण पाच्यते इत्यव तदर्थकतृतौयोपपत्तिः एवं''कर्तृ' करणयोस्तृतीये" ति सूचे कर्तृशब्दी दर्शितार्थक एव न तु कर्तृ संज्ञाविशिष्टार्थकः । नन्वेवं गमयति दिग
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy