________________
१२४ द्वितीयाविभक्तिविचारः। हा फूल्कारादे प्रतीतिस्तथा गच्छतीत्यादावपि न तप्रतीतिरिति समभिव्याहारज्ञानस्य न हेतुत्वमिति चेत् तथापि धानोर्व्यापारावाचित्वं न युज्यते तथा सति गुरुः । शिष्येण वाचयतीत्यादौ णिजर्थस्य प्रयोजकव्यापारस्य तिर्थप्रयोज्यव्यापार प्रति प्रकृत्यर्थत्वादप्राधान्यापत्तिराख्यातोर्थव्यापारानन्वयिनि गुरौ संख्यान्वयासम्मवादनभिधानेन गुरुपदात्तृतीयाऽऽपत्ति: शिष्यव्यापारस्य तिङभिधानात् शिष्यपदाच्च प्रथमापत्तिश्चेति वदन्ति । तचिन्त्यं णिजर्थस्याप्राधान्येऽपि णिजयंवत्वं कर्तत्वं गुरावक्षतमेव । वस्तुतस्तुणिचप्रकृतिकतिङ एव प्रयोजकव्यापारोऽर्थः सच धात्वर्थफले परम्परासंबन्धनान्वेति हतीयार्थप्रयोज्यव्यापारःसाक्षादन्वेति तथा च गुरुः शिध्येण वाचयतो त्यत्र गुरौ प्रयोजकव्यापाररूपकर्तृत्वस्य कर्ट संख्यायाश्च तिङाऽभिधानागुरुरित्यत्र ने तृतीयाप्रसक्तिः शिष्ये प्र-- योज्यव्यापाररूपकर्ट त्वस्य कट संख्यायाश्च तिङाऽनभिधानान्न ढतीयाऽनुपपतिरिति मण्डनमिश्रमते शाब्दिकोक्तो यद्यपि न दोषस्तथापि धातोर्व्यापारावाचकत्वं न युज्यते तथा मति प्रसृतं गच्छति तिर्यक् गच्छतीत्यादी प्रस्तादिपदार्थानां कर्मविशेषाणां धात्वर्थविशेषखात्वानुपपत्तिप्रसङ्गः फले संयोगादी तादात्म्येनान्वयायोग्यत्वात् । न चोत्र प्रस्तादीनां तिङर्थव्यापारे तादात्म्येनान्वयाविशेषणत्वमिति वाच्यम् तथापि प्रसृतं गम्यते ग्राम इत्यादौ संयोगात्मकफलान्विते ति
श्रियत्वेभेदान्वयायोग्यत्वादनुपपत्तितादवस्थ्यात् किं च वृक्षातलं गम्यते इत्यादौ पञ्चम्यर्थविभागस्य ज