________________
विभक्त्यर्थनिर्णये।
११९ रिति नैतद्योगे द्वितीयाप्रसङग इति शाब्दिकैरुक्तम् । तदपि न सुन्दरम् । तथा हि उद्बोधकादिस्तत्वेन स्मरणजनकत्वेन वा स्मधातुना वाच्यः । नाद्यः । प्रकृते स्मरणावगमस्य सर्वजनसिद्धस्यापलापप्रसङ गात् । न द्वितीयः । स्मरणजनकसंस्कारादे: शिष्यादिगतत्वेनकर्मस्थभावकत्वाभावप्रसङ गात् तस्मादधिगमादिविषयतयोविशेष्यविशेषणभावव्यत्यासेन धातुना प्रतिपादात्वे धिगच्छति शास्त्रार्थ इत्यादौ द्वितीयाप्रसङगो दुर्वार इति चेत् । अत्र गुरुचरणाः । अधिगच्छति शास्त्रार्थ इत्यादावधिगमविषयताया विशिष्टाया धातोर्लक्षणास्वरूपा दृत्तिः न तु विशेष्यविशेषणभावव्यत्यासमावेण लप्ताभ्यां खण्डशक्तिभ्यां नि'हः खण्डशक्ति जनितपदार्थोपस्थितेः फलविशेषणकव्यापारविशेष्यकशाब्दबोधस्य प्रयोजिकायामधिगमिधातुत्वावच्छेदेन तादृशशाब्दबोधाभावप्रयोजकोभूतामावप्रतियोगित्वस्वरूपाकाका बुवावेव सहकारित्वाल्युपगमात् व्यापारविशेषणकफलविशेष्यकशाब्दोपयोगिव्यव्यत्यन्तरस्य नत्र खण्ड शक्तिजनित पदार्थोपस्थितेः सहकोरित्वस्य च कल्पनमपेक्ष्य विशिष्टे वृत्तिरेव कल्पयितुमुचिता । तथा चाधिगमादिविषयतायां विशिष्टा धात्वर्थे विशेषणीभूताधिगमादी पदार्थैकदेशतया न ट्वितीयाऽर्थात्रय इति कर्मस्थभावकानां प्रायेणाकर्मकत्वमन्यव भावदेशकालाध्वभ्य इति पदवाक्यरत्नाकरे प्राहुः । तदिदं शाब्दिकमतमेव परिष्करोति न्यायमते व कर्माख्याते व्यापारविशेषणकफलविशेष्यकशाब्दबोध