________________
११८
द्वितीयाविभक्तिविचारः। सेन धातुना प्रत्याय्यते प्राधान्यवशाक्रियामा प्राप्तस्य फलस्थाधिकरणातया भवति शास्त्रार्थोऽधिगमादिकतेति प्राञ्चः । नन्वेवमधिगमादेविषयताविशेषण तथा भाममानत्वेन फलत्वं स्यात् धात्वर्थविशेषणतया भासमानस्य धात्वर्थस्य तथात्वोपगमात् तथा अधिगमाद्यात्मकफलवतः शिष्यादेः कर्मत्वापत्त्या शिष्यमधिगच्छति शास्त्रार्थ इत्यादिप्रयोगः स्यात् न च बुभुक्षितं न प्रति भाति किचिदिति दर्शनादियमिष्टापत्तिरिति वाच्यम् । अत्र प्रतियोगे द्वितीयाया अकर्मणि साधुत्वात् यत्तु ।
एकदेशे समूह वा व्यापाराणां पचादयः ।
स्वभावतः प्रवतन्ते तुल्यं रूपं समास्थिताः ।। इति वाक्यपदीयवाक्यस्य एकदेशे फलमात्र समूह व्यापारमात्र वा धातवः प्रवर्तन्ते तेन व्यापाराविवचायां फलमाचे धातुप्रयोगः यथा पच्यते ओदनः स्वयमेव फलाविवक्षायां व्यापारमावे धातुप्रयोगः यथा पचति चैत्र इत्यादावित्यर्थं व्याकुर्वाणौरधिगच्छति शास्वार्थ इत्यादौ विषयतास्वरूपं फलमा धात्वर्थः तच्च प्रधानतया क्रिया भवति विशेषणीभूतधात्वर्थस्य फलस्याभावात् फलावाचकत्वादकर्मकः कर्मस्थभावको धातुरिति नैतद्योगे हितोयाप्रसङग इति कैश्चिटुक्तम् । तन्न विचारसहम् । विषतया स्वरूपफलमात्रार्थकतया अधिगच्छतिस्मरतिश्रद्दधातीनां पर्यायताप्रसङ गात् । यदपि स्मरति शास्त्रार्थ इत्यादौ विषयतया फलमुडोधकादिस्सरणीयत्तिापारश्च धात्वर्थः फलव्यापा योवैधिकरण्याभावादकर्मकः कर्मस्वभावको ।