________________
११२
द्वितीयाविभक्तिविचारः ।
वतां ज्ञानमित्यादौ ज्ञानसंबन्धिसंबन्धवन्ज्ञानमित्यन्ययबोधदर्शनात्, प्रथमान्तार्थ मुख्य विशेष्य कशाब्दवोधोपगमे तु नेदृशः प्रयोगः सम्भवति उद्देश्यतावच्छेदविधेययोरैकन घटे घट इतिवन्निराकाङ्गत्वादिति अपि च पाचको न पचतीत्यादौ धात्वर्थमुख्य विशेष्यकः शाब्दबोधः कथमपि न सम्भवति यदि नञो भेदोऽर्थस्तवप्रतियोगितया पाचकस्यान्वयस्तदा पाचकभेदस्य तिङर्थकर्तर्यन्वये तादृशकर्तुः पाकेऽन्वयो न सम्भवत्ययोग्यत्वात्पाचकान्यकर्ट को विद्यमानपाक इत्यन्वयबोधासम्भवात् पाकस्य पाचककर्ट कत्वनियमात् । यदि च नञोऽत्यन्ताभावोऽर्थः तत्र पाचकविशेषितस्य तिङर्थक : प्रतियोगितयाऽन्वयस्तदाऽपि तस्य पाके नान्वयोऽयोग्यत्वात् पाचकाभिन्नकर्चभाववान् विद्यमानपाक इत्यश्वयबोधासम्भवात् कर्तृ' विनाकृतायाः क्रियायाः कदाऽप्यसत्वात् । न च नञर्थात्यन्ताभावे पाचकाभिन्न कतुराधारतयाऽन्वयस्तचैवाभावे लडर्थवर्तमानत्वान्वयः सोऽत्यन्ताभावः प्रतियोगितासंबन्धेन पाके विशेषणतयाऽन्वेति तथा च पाचकाभिन्नकट दृत्तिविद्यमानात्यन्ताभावप्र तियोगी पाक इत्यन्वयबोधसम्भवान्न शाब्दबोधस्य धात्वर्थसुख्यविशेष्यकत्वहानिरिति वाच्यम् । लडर्थवर्तमानत्वस्य नञर्थान्वये व्युत्पत्तिविरहात् विद्यमानपाके तादृशाभावप्रतियोगित्वासम्भवात् दर्शितान्वयबोधस्याप्यसम्भवात् नञर्थाभावस्य प्रतियोगिनि विशेषणाभावेनान्वयस्याव्य त्पत्तेश्च तथा सति पाकेन रक्तंतादशायां घटे रक्तो नेति प्रतीतिव्यवहारापत्तेः । घटटच्यत्यन्ताभावप्र
9