________________
१०२
द्वितीया विभक्तिविचारः। गम्यते इत्यत्व न शाब्दबोधः चैत्रेण ग्रामो गम्यते न तु स्वात्मा न वा मनुष्य इत्यादौ तत्संसर्गावच्छिन्नप्रतियोगिताकस्तिर्थसंयोगस्याभावः स्वात्मनि मनुष्ये च नजा बोध्यते इति निषेधप्रतीत्युपपत्तिः घृतं जुहोति न तु बन्हिमोदनं भुङ्क्ते न तु कण्ठं शर्छ हन्ति न तु प्राणमित्यादौ यवा इयन्ते न तु वह्निरोदनोभु ज्यते न तु कण्टः शवहन्यते न तु प्राण इत्यादौ हितोयाकर्माख्यातयोवन्हिसंयोगः पार्थिवद्रव्यप्रतियोगककण्ठठसंयोगः प्राणात्यन्तविभागः फलमर्यः तत्र हितीयार्थे वन्हिभेदेन कण्ठभे. देन प्राणभेदेनावच्छिन्नसमवायाच्छिन्नाधेयत्वेन सम्बन्धेन प्रकृत्यर्थस्य यथाक्रममन्वयः तत्तत्संमर्गावच्छिन्नप्रतियोगिताको वयाद्यभावो वह्निसंयोगादौ नञाबोध्यते कमाख्यातार्थस्य वहिभदाद्यवच्छिन्नसमवायावच्छिन्नाधिकरणत्वेन मम्वन्धेन प्रथमान्ताऽन्वयः तत्संसर्गावच्छिन्न प्रतियोगिताक: कर्माखातार्थस्याभावः प्रथमान्तार्थे नञा बोध्यते इत्यादिकं सुधीभिरूहनौयमिति । यदा तु धातुना फलमेवामिधीयते तदोक्तार्थानामितिन्यायाद् द्वितीया न भवति कर्मस्थभावको धातुर्भवति तत्र तिङा फलान्वितमाश्रयत्वयभिधीयते फलान्विताश्रयत्ववतः कर्मणः कट त्वमेव तत्र निर्वयविकार्ययोः कर्मणोः कट त्वे कर्मवद्भावो यथा ओदनः पच्यते स्वयमेव वंशश्छिद्यते स्वयमेवेत्यादौ प्राप्यकर्मणः कर्ट त्वे तु न कर्मवद्भावो यथा ग्रामो गच्छतीत्यादौ अधिकमुपरिष्टाद्यक्तीभविष्यतीति प्राचीनमतमप्यनवद्यमिति । भारव्यातार्थभावनायां प्रधानीभूतायामेवका