SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । ब्दसम्भवादौदृशकार्यकारणभाव मानाभावात् । हितीयान्तसमभिव्याहारात् प्रकृत्यर्थविशेषित द्वितीयार्थस्य विशेषणतया फलेऽन्वयसम्भवा दर्शित कार्यतावच्छेदकस्यासमाजस्तत्वाच्च । किं च दर्शित कार्यकारणभावेन चेarचैवं गच्छतीत्यत्र शाब्दवारणेऽपि खगो भुवं गच्छति न तु स्वमित्यत निषेधप्रतीत्युपपत्तिर्न भवति । स्वकर्मकत्वाभावस्य विना भेदं प्रत्येतुमशक्यत्वादिति भेदस्य द्वितीयार्थत्वावश्यकत्वे तावतैव चैत्रश्चैवं गच्छतीत्यच चैचकर्मकत्वशाब्दासम्भवान्निष्प्रामाणिकतरो दर्शितोऽयं कार्यकारणभावः । यदि च पचतीत्यादौ भेदप्रतीतिनिषेधमुखेनापि न भवतिगम्यादौ तु भुवं गच्छति न तु स्वमिति निषेधप्रतीत्यन्यथाऽनुपपत्या भेदप्रतीतिTarant तत्र भेदः फलविषया धात्वर्थः तत्र हि - तार्थस्यात्वस्याऽन्वयः तस्य च प्रतियोगितावच्छेदकतया व्यापारेऽन्वयः संयोग इव भेदोऽपि फलविधया धात्वर्थ एव तावताऽपि न तु स्वमिति नि प्रतीत्युपपत्तिरिति भेदो धातोद्वितीयाया वा शक्य इत्यत्र विनिगमनाविरहः । न च भेदस्य फलविधया गम्यर्थत्वे भेदरूपफलत्वात् ग्रामत्वस्य कर्मत्वं स्यात् तथा च ग्रामत्वं गच्छतौति प्रयोगापत्तिरिति वाच्यम् । संयोगभेदांभयफलवतो गमिकर्मत्वात् तदुभयविरहेण गामत्वस्य कर्मत्वायोगात्तथा प्रयोगानापत्तेः । न च चैत्रो ग्रामं गच्छति न तु मनुष्यमित्यत्र निषेधप्रतीत्यनुपपत्तिः । संयोगे चैत्रात्मकस्य भेदे चैत्रान्यमनुष्यस्यावेयतायाः सत्वात् तदभावप्रतीत्यसम्भवादिति वाच्यम् । 1
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy