________________
विभक्त्यर्थनिर्णये । दितशब्दार्थविशेषितानां शराणामाकर्णाने कर्मतयाऽन्वयेऽपि न व्यभिचार इति वाच्यम् । नीलं घटं पश्येत्यादौ नीलपदार्थविशेषितस्य घटस्य कर्मतया दर्शनेऽन्वयबोधादन्वयव्यभिचारादिति द्वितीया या आश्रयोऽर्थः तेन वाक्यार्थस्य कर्मतासंसर्गेणान्वयबोधे हितोयार्थस्य न विशेषतया न प्रकारतया भानमिति द्वितीयाज्ञानस्य तज्जन्योपस्थितेर्वा न व्यभिचार इति जलं न पश्तोत्यत्र जलाशयाभावः पाके प्रतीयते त्यनियामकसम्बन्धस्य प्रतिगेगितानवच्छेदकत्वे बौजाभावादिति चेन्न । यतो
त्य नियामकसम्बन्धो न प्रतियोगिमत्ताबुद्धिजनकः । गगनादिसंयोगस्य मृर्ते सत्वेऽपि मृत गगनादिमत् गगनादि मूर्तबहेति प्रतीत्यनुदयात् तथा च प्रतियोगिमत्ता. बुयजनकत्वेन व्यधिकरणसम्बन्धतुल्यो सत्यनियामकसंबन्ध इति व्यधिकरगासंबन्धावच्छिन्न प्रतियोगिताकस्येव कृत्यनियामकसंबन्धावच्छिन्नप्रतियोगिताकस्यायभावस्य केवलान्वयित्वमित्येव वृत्यनियामकसंवन्धस्य प्रत्यार्थाभावप्रतियोगितानवच्छेदकत्वे बौजमिति ना तत्संबन्धावच्छिन्न प्रत्ययार्थाभावो न बोध्यते । यदि बोध्येत तदा त्यनियामकर्मबन्धेन प्रतियोगिसंबन्धिनि यथा मूर्ते न गगनादि गगनादौ न मूर्तमित्यादि प्रयोगस्तथा तण्डुलं पचत्यपि तण्डुलं न पचतौति प्रयोग: स्यात् । न चैवं हितौयाया निरर्थकत्वेऽपि जलं न पचति तण्डुलं न पचतोत्यादावन्वय बोधानुपपत्तिस्तदवस्थेति वाच्यम् । आश्रयस्याधिकरणताया वा द्वितीयार्थत्ववादे द्वितीयाया निरर्थकत्ववादे च