________________
**
श्रीधनसार कथा॥
श्रीं वद्धमान
ततस्तेनोक्तं 'हे भगवनद्यप्रभृत्यहमुपार्जितधनस्य चतुर्थ भागं रक्षयित्वा शेषं सर्व धर्मार्थमेव दास्यामीति नियममहं जिन देशना गृह्णामि, तथा स्वमुखेनाहं कस्यापि दोष नोद्घाटयिष्यामीति नियमं गृहीत्वा श्रावकधर्म च प्रतिपद्य केवलिनं च नत्वासौ ॥९२॥ ताम्रलिप्ती नगरी समाययो. तत्र रात्रौ कस्मिच्चिच्छ्रन्यगृहे स विशुद्धपरिणामः कायोत्सर्गे स्थितः. इत एकः सुरस्तत्रागत्य
| धनसारं प्रत्युपसर्ग चकार, धूलिपिपीलिकासर्पवृश्चिकादयस्तेन विकुर्विताः, परं तस्य मनो मेरुचूलावन्न चचाल. ततोऽसौ देव* स्तुष्टः सन् तस्य पादयोलगित्वा नमस्कृत्यैवमवादीत 'हे महाभाग ! त्वं धन्यः कृतपुण्योऽसि, धन्या सा तव जननी यस्याः |
कुक्षौ त्वं समुत्पन्नः, तव दृढधर्मपरिणामेनाहं तुष्टोऽस्मि, अथेतस्त्वं मथुरायां याहि ? तत्र त्वं तव विनष्टं धन लप्स्यसे.' इत्युक्त्वा देवो निजस्थाने गतः
अथ प्रभाते स कायोत्सर्ग पारयित्वा पारणकं च कृत्वानुक्रमेण ततो मथुरायां समागतः, तत्र च तस्य सर्व धनं प्राप्तं, * ततोऽसौ निजपरिग्रहप्रमाणं विधाय शेषं सवै धन सप्तक्षेत्रेषु व्ययीकृतवान्. तद्यथा-जिनचैत्युषु १ जिनपतिमाविषये २ जैन
पुस्तकेषु३ साधव ४ साच्ये ५ श्रावकाणां ६ श्राविकाणां च ७ पोषणाय स निजद्रव्यं व्ययति. एवं सदा पुण्यं कृत्वायु:| क्षये मृत्वा सौधर्मदेवलोकेऽसौ चतुःपल्योपमायुमहर्द्धिको देवो जातः, तत्रापि देवसुखानि भुंक्त्वा ततश्च्युत्वा महाविदेहे मनुप्यत्वं प्राप्य दीक्षां गृहीत्वा कर्मक्षयं विधाय केवलज्ञानं प्राप्य स मुक्तिसुखं प्राप्स्यति.
॥ इति परिग्रहपरिमाणविषये धनसारकथा समाप्ता ॥ अतो भो भव्या एवं संतोषोपरि धनसारकथा श्रुत्वा पंचमाणुव्रते यूयमादरं कुरुत ? तत् श्रुत्वानंदगाथापतिरपि परिग्रह* परिमाणवतं गृह्णातिस्म.
器器器端發藥器暴斃器鉴器器器器器器器蒂器驗器器
॥५२॥