________________
28882
श्री वर्द्धमान जिन देशना
॥३॥
श्री आनन्द चरितम् ॥
聯露號藥藥藥鉴懿馨馨馨馨馨馨馨藥藥聲聲聲器架
दृष्ट्वैकस्य नागरस्य पृच्छति, 'भो पुरुष ! एते लोकाः क्व व्रजन्ति ?' स मनुष्यः कथयति 'भो श्रेष्ठिन् ! सर्वज्ञः सर्वदर्शी सर्वलोकानां सुखजनकः श्रीमहावीरोत्र समवसृतोऽस्ति, तस्य वंदनार्थमेते व्रजन्ति.' तत श्रुत्वाऽऽनंदश्रेष्ठी स्वमनसि चिंतयत्यसौ 'वीतरागोऽस्ति, अस्य वंदनेन च महाफलं भवति,' एवं चिन्तयन् सोऽपि द्रुतपलासे चैत्ये समागतः, त्रिप्रदक्षिणीकृत्य वंदित्वा नमस्कारं च कृत्वा पुरत उपविष्टः, अथ कंदर्पमदमयकत्रिभुवनगुरुभविकलोकनेत्राणामानंददायकः श्रीवर्द्धमानस्वामीदृशं धर्मोपदेशं कथयति
'भो भव्यलोका जातिजरामरणदुःखवियोगरोगादिभिः पूर्णोऽयं मनुष्यलोकः. अस्मिन् संसारसमुद्रे मनुष्यभवो | दुर्लभः, आर्यक्षेत्रे चोत्तमकुलप्रसूतिर्दुर्लभा, उत्तमगुरुसंयोगो धर्मश्रवणं च पुनदुर्लभं. एवं ज्ञात्वा निद्राविकथाक्रोधादिकपायांस्त्यक्त्वा धर्म उद्यमो विधातव्यः, पुनर्भो भव्यलोका यदि मुक्तिसुखं वांछथ तर्हि सम्यक्त्वे आदरं कुरुध्वं ? यदुक्तं सिद्धांत१ देसणभट्ठो भट्ठो दंसणभट्ठस्स नत्थि निव्वाणं । सिज्झतिचरणरहिया, दंसणरहिया
न सिझंति॥१॥ [यो०मू० या देवे देवताबुद्धिगुरौ च गुरुतामतिः । धर्म च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥१॥ __आo-मूलं बोधि?मस्यैतत् , द्धारं पुण्यपुरस्य च । पीठं निर्वाणहर्म्यस्य, निधानं सर्वसम्पदाम् ॥१॥ १दर्शनभ्रष्टः भ्रष्टः दर्शनभ्रष्टस्य नास्ति निर्वाणं सिद्धयन्ते चरणरहिताः दर्शनरहिताः न सिद्धयन्ति ।
聯帶帶柴柴聯樂器器端端帶聯继聯聯發聯晚聽藥藥藥
॥३॥