________________
श्री वर्धमान जिन देशना ॥५४॥
*******
| श्रीहरिबलकथा।
*
端端端端端端樂器器蒸器端端端端端端端端端藥號號號號號端端聽聽
वार्ता च कौतुकवती विशदा च विद्या लोकोत्तरः परिमलश्च कुरंगनाभेः।।
तैलस्य बिंदुरिव वारिणि दुर्निवार-मेनत्रयं प्रसरतीति किमत्र चित्रं ॥१॥ इति ज्ञात्वा राज्ञा हरिबलाकारणार्थ निजप्रधानपुरुषाः प्रेषिताः ते च हरिबलसमीपे समागत्य तं विज्ञायामासुः 'हे स्वामिन् ! वसंतश्रीपिता भवतामाह्वयति. तत् श्रुत्वा हरिवलश्चतुर्विधीन्य संमेल्य भार्यात्रययुतस्ततश्चलितः क्रमेग कांचनपुरे प्राप्तः राज्ञा च महोत्सवेन तस्य नगरप्रवेशः कारितः, ततो राज्ञा हरिबलस्य प्रशंसां विधाय निजपुत्री सन्मानिता सत्कारिता च.
अथ हरिवलं योग्यं विज्ञाय तस्मै निजं राज्यं दत्वा राजा स्वयं दीक्षां गृहीत्वा दुष्करतपो विधाय केवलज्ञानमुत्पाद्य मुक्ति ययौ. | अथ हरिबलः सुखेन राज्यद्वयं पालयामास, प्रथमास्त्रयो भार्यास्तस्य पट्टराइयो बभूवुः, अन्या अपि तस्य बढ्यो | राज्योऽभवन्, एवं स भार्याभिः सह विविधसुखानि भुक्ते. __अथान्यदा वनपालेनागत्य तस्मै निवेदितं 'स्वामिन् ! भवतां धर्माचार्या उपवने समागताः सन्ति,' तत् श्रुत्वा राजातीवहृष्टो वनपालाय बहुदानं दत्वा तं व्यस यत्, ततोऽसौ महताडंबरेण तत्र गत्वा गुरुं त्रिप्रदक्षिणोकृत्य वन्दनपूर्वकं विज्ञपयामास, 'हे स्वामिन् हीनकुलोत्पन्नेनापि मया भवत्प्रसादादेवैषा ऋद्धिः प्राप्ताऽस्ति, अतः कृपां विधाय पुनरपि मां यूयं धर्ममादिशत, येनाहं परभवेऽपि सुखी भवामि.'
ReEEEEE*
॥५४॥