________________
भीवर्द्धमान जिन देशना ॥२५४॥
महाशतक चरित्रम् ॥
參亲亲密感染著驱蒂聯聚蒸器桑茶器茶器蒂蒂染染整密密杂染蒸發
करिष्यति तस्य राजा महादंड विधास्यति. तत् श्रुस्वा मसिलोलुपा रेवती प्रच्छन्नं प्रत्यहं गोकुलाद् द्वौ गोवत्सौ निजपुरुषैर्मारयित्वा तन्मांसमौषधीभिः सह पाचयित्वान्नाति. तद्भक्षणतश्चातीवविषयलुब्धा सती निजकालं गमयति. ____ अथैवं महाव्रतानि पालयतो महाशतकस्य चतुर्दशसंवत्सराणि गतानि, पंचदशे संवत्सरे स चैकदा निशि धर्मजागरिकां कुर्वन् चिंतयामास, इयत्कालावधि मया बहु धनं समुपार्जितं, स्वजना अपि सर्वे संतोषिताः, निरंतरं पंचविषयसुखानि भुक्तानि, सुपात्रदानाद्दीनदुःखिता अप्युद्धरिताः.
अथ पुत्रा अपि कुटुंबभारोद्धरणे समा जाताः, ततोऽहमथ श्रावकपतिमा आराधयामीति ध्यात्वा स निजवृद्धपुत्रं कुटुंबभारे स्थापयित्वा पौषधशाला प्रमाय॑ तत्र दर्भसंस्तारकोपविष्टः प्रतिमाध्यानस्थस्तस्थौ. इतो बहुसुरापानतो मदोन्मत्तीभूता कामातुरा रेवती विकीर्णकेशा लुलंती पौपधशालायामागत्य शृंगारमयानि कामोत्पादकानि वांसि महाशतकस्याग्रे कथयामास. 'भो महाशतक ! त्वं लब्धानि विषयसुखानि त्यक्त्वा मुधा मूढवत्कथं कायक्लेशं कुरूपे ? यत्सुरादिसुखकृते त्वं घोरं तपः करोषि, तत्सर्वमपि सौख्यं तवेहैव प्राप्तमस्ति. यच्च मोक्षसुखं त्वं वांछसि तत्र तु स्वर्णवर्णदेहा पीनतुंगकठिनस्तनी पुष्टनितंबविमंडिता कापि कामिन्यपि नास्ति, मृदंगवेणुवीणाधुपलक्षितं नाटकमपि तत्र नास्ति, मोदकपूतपूरादिखाद्यपदार्था अपि तत्र न संति, एवंविधे मोक्षे त्वं कि सुखं मन्यसे ? यतःजइ नत्थितत्थसीमंतिणीउ।मणहरपिअंगुवण्णाओ॥तासिद्धति अबंधण।खु मुक्खोन सोसुक्खो॥१॥ तथा द्विरष्टवार्षिकायोषित् । पंचविंशतिकापुमान् ॥ अनयोनितरां प्रीतिः । स्वर्ग इत्यभिधीयते ॥२॥
總路發柴增強強器聯柴柴柴柴柴聯華路參聯強路器蒸蒸染響要靈
॥२५॥