________________
श्रीवर्द्धमान जिनदेशना ॥२३८॥
號議曼號聯藥藥藥藥藥聯蒂继器继器能聽器聽議藥器樂器遊義器
तायां श्रीकुंडकोलिकश्रावकपतिबोधो नाम षष्ठ उल्लासः समाप्तः ॥ श्रीरस्तु॥
| सद्दालपुत्र अथ श्रीसुधर्मस्वामि जंयूस्वाम्यग्रे सद्दालपुत्रस्य चरित्रं कथयति.--
चरित्रम् ॥ अस्मिन् जंबूद्वीपे भरतक्षेत्रे पोलासाभिधं नगरं वर्तते, तत्र जितशत्रुराजा राज्यं कुरुते. तन्नगराद्वहिः सहस्राम्रवनाभिधचैको वनखंडोऽस्ति. तकः सद्दालपुत्राभिधः प्रजापतिर्वसति, स च खलीपुत्रगोशालकस्य श्रावकोऽस्ति, तस्य मते चातिनिपुणीभूतो गोशालप्ररूपितं धर्म करोति. तस्य व्याजे व्यापारे भूम्यां चकैका स्वर्णकोटिरस्ति, एकं च तस्य गोकुलं वर्तते. अन्यापि तस्य गृहे बह्वी समृद्धिरस्ति. तस्याग्निमित्राभिधा भार्या शुद्धशीलपवित्रगात्रास्ति. तस्य नगराद्वहिः पंचशतानि || भाडहट्टानि संति, पंचशतभृत्याश्च तेषु हट्टेषु व्यापारार्थनुपविशंति, नवोनभांडानि कुर्वति पाचयंति च. अन्येऽपि तस्य भृत्या भांडानि गृहीत्वा नगरमध्ये राजमार्गे समुपविश्य विक्रयति.
अथान्यदा सदालपुत्रोऽशोकवाटिकायां स्थितोऽस्ति. तदा कोऽपि देवः प्रत्यक्षीभूय तमवादीत् भो सद्दालपुत्र ! अगेत्र सम्यग्ज्ञानदर्शनधरः सर्वज्ञः केवली त्रैलोक्यपूज्यो मुक्तकर्मबंधनचाहन्नत्र समेष्यति, त्वया वंदनं कार्य तस्मै च त्वया पीठफलफशय्यासस्तारकार्थं निमंत्रण कार्य, इत्युक्त्वा स देवोऽदृश्यभूतः अथ सदालपुत्रो मनसि चिंतयति नूनं पूर्वोक्तगुणोपेतो मे धर्माचार्यों मंखीलीपुत्रो गोशाछोऽत्र समेष्यति, तस्याहं वंदनं विधाय पीठफलकशय्यासंस्तारकाथै निमंत्रयिष्यामीति ध्यात्वा स्थितः अथ प्रभाते श्रीवर्द्धमानस्वामिनस्तत्र समागताः, नृपादिनगरलोकाश्च प्रभोवंदनाथै तत्र समायाताः तदा स सद्दालपुत्रोऽपि
॥२३८॥
聯继聪號聽聽聽器聯號聚驚器蒙蒙蒙蒙聯驚艷艷號樂器聲染號验器