________________
श्रीवर्द्धमान जिन देशना ॥२३६॥
****
न हि भवति यन्न भाव्यं । भवति च भाव्यं विनापि यत्नेन ॥ करतलगतमपि नश्यति । यस्य तु भवितव्यता नास्ति ||२||
अतो मंखलिपुत्रस्य गोशालकस्य धर्मः शोभनः, श्रीवर्डमानप्रणीतो धर्मः शोभनो नास्ति इत्यादि सुरस्य वचनानि श्रुत्वापि जिनवचनभावितात्मा कुंडकोलिकश्राद्ध उवाच भो देव ! तवोक्तं युक्तियुक्तं न यत उत्थानादिविना कार्यसिद्धिनैव भवति चेद्यदि पुरुषाकारादि विनैव कार्यसिद्धिर्भवेत्तदा त्वया देवर्द्धिः कथं प्राप्ता ? यदि च संयमादिरहितैरपि देवर्द्धिः प्राप्यते तदा संसारस्थाः सर्वेऽपि जीवा देवर्द्धिसंयुक्ता एव भवेयुः, अत्र पुनरेके जीवाः सुखिनोऽपरे चातीवदुःखिनो दृश्यते, तस्य किं कारणं ? यदि सर्वेऽपि भावा निजस्वरूपा एव भवेयुस्तदा नूनमेषां पर्यायपरावर्त्तोऽपि न भवेत् भवतापि भवांतरे तीव्रतपःसंयमादि कृत्वैव देवत्वं प्राप्तमस्ति अतस्त्वदुक्तं सर्वै मिथ्यैव ज्ञेयं.
जनप्रणीतो धर्मः सत्यतत्ररूपोऽस्ति, गोशालस्य धर्मश्वासत्यरूपो ज्ञेयः किं च भो देव त्वं ज्ञानवानसि अतो निजबुद्धेर्धर्मस्य सत्यासत्यत्वं विचारय ? उक्तं च-
बुद्धेः फलं तत्वविचारणं च । देहस्य सारं व्रतधारणं च ॥
अर्थस्य सारं किल पात्रदानं । वाचः फलं प्रीतिकरं नराणां ॥ १ ॥
इत्यादि कुंडंकोलिकवचनैर्देवो निरुत्तरीभूय चिंतयामास नूनमनेनाहं जितः ततोऽसौ तत्मुद्रिकामुत्तरीयं च मुक्ता स्वस्थाने गतः
***************
कुंडकोलिक चरित्रम् ॥
॥२३६॥