________________
श्रीवर्द्धमान जिनदेशना ॥२३४॥
कुंडकोलिक चरित्रम् ॥
张继器端端樂器继聪器端端端樂器器端端端端端端端樂樂器器鉴幾號
किंचित्तवेप्सितं कार्य मे कथय ? कुमारः प्राह हे मातरिमं मे भग्नं दारुमयमश्वं त्वं सज्झीकुरु ? ततः सा देवी निजशक्त्या तमश्वं सब्जीकृत्य स्वस्थाने गता.
अथ दासीमुखात्तत्र कुमारागमनं श्रुत्वा क्रुद्धो राजा कुमारमारणाय निजसैन्यमप्रेषयत् तुरंगस्थेन नभोगेन कुमारेण पुण्यप्रभावात्सर्वं सैन्यं भग्नं.
अथ राजा मनसि चिन्तयति 'अरे मयैतदयुक्तं किमारब्धं ? कन्या तु यस्य कस्यापि देयैव, तदेदृशं वरं कुत्राहं लस्ये ? इति ध्यात्वा निजप्रधानपुरुषान् संप्रेष्य बहुमानपूर्वकं तेन निजपुत्री कुमारेण सह महोत्सवेन परिणायिता.
अथ कुमारो नृपादेशं प्राप्य सभार्यस्तमश्वमारुह्य स्वनगरं प्रति चलितः. इतः शंखनृपेण पुत्रवियोगेन षट्सु मासेष्वतिक्रांतेषु तं रथकारं धृत्वा तज्ज्वालनाय नगराद्वहिश्चिता कारिता. रुष्टो राजा यमतुल्यस्तुष्टश्च धनदोपमो भवति.
अथ नृपादेशेन राजपुरुषास्तं रथकारं वध्वा चितासमोपे समानीय विरसंवतो यावत्तं चितामध्ये क्षेप्तुं लग्नास्तावत्कुमारः सभार्योऽश्वारूढो गगनात्तत्र समुत्तीर्णः पुत्रागमनेन प्रमुदितो राजा पुत्रं रथकारं च महामहोत्सवेन नगरे प्रवेशं कारयामास. अथ क्रमेण स शंखराजा कथाशेषो जातः, कुलध्वजकुमारश्च राजा जातः, सा सुंदर्यपि पट्टराज्ञी जाता, एवं स तया सह स्वेच्छया विषयसुखानि भुंक्ते.
अन्यदा तन्नगरोद्याने परिवायुतः केवली समवसृतः, मालिकमुखात्तदागमनं श्रुत्वा राजा तद्वंदनार्थ गतः, तत्र धर्म | श्रुत्वा प्रतिबुद्धो राजा सुतं राज्ये निवेश्य विधिना तस्य केवलिनः पार्थे प्रव्रज्यां जग्राह ततः स राजर्षिः संसारं कारागारं
張榮發藥柴柴藥赛聯號藥器器鉴號號號號號號樂器馨馨馨馨荡器器端