________________
श्रीवर्द्धमान जिन देशना ॥२३२॥
कुंडकोलिक चरित्रम् ॥
器蹤器蒸發號聯端端端器器器端端發藥器器凝器器誘蟲器器錢號幾號
दृष्ट्वातीवज्वलितस्तस्यान्यायकारिणो वधाय समादिदेश. राज्ञ आदेशं प्राप्यारक्षकास्तं गृहीत्वा वधस्थाने नेतुं लग्नाः.
अथ मार्गे आरक्षकैर्नीयमानं तं महातेजस्विनं कुमारं दृष्ट्वा लोकाः परस्परमेवं जजल्पुः, अहो राजा नूनमेतादृशस्य पुरुषस्य वधकरणेनानुचितं कुरुते, एतद्वियोगेन राजकन्यापि ध्रुवं मरिष्यति, पुच्या च बाल्यवशेन यदीकर्म कृतं, तथा राज्ञः स्वगृहस्यैतदुश्चरितं प्रकाशयितुं न युज्यते. उक्तं च
आयुवित्तं गृहछिद्रं । मंत्रमैथुनभेषजं ॥ दानं मानापमानौ च । नव गोप्यानि कारयेत् ॥१॥
इत्यादि लोकवचनानि शण्वन् सुभटैः परिवृतः कुमारः क्रमेण चलन् मालाकारगृहपार्श्वे समागतः, तदा कुमारेणारक्षकेभ्यः कथितं 'भो भो आरक्षका अत्र मालाकारगृहे मम कुलदेव्यस्ति. ततो यदि भवदाज्ञा चेत्तदा भवत्प्रसादेनाहमत्र तां नमामि तैरुक्तं याहि ? मुखेन प्रणमयेत्युक्तोऽसौ मालाकारगृहमध्ये समागत्य निजावं सज्जीकृत्य तत्रारुह्य सर्वेषु पश्यत्सु पक्षिवद्गगने समुत्पतितः, ततोऽसौ कन्याया भवने समुत्तीर्य तामप्यश्वे समारोप्योडीय महासमुद्रपार्थे समायातः, तदा कुमारस्य क्षुधा लग्ना, कुमारं क्षुधितं विज्ञाय कन्ययोक्तं हे स्वामिन् भवत्कृते निजगृहे गत्वा यावन्मोदकानानयामि तावत्वं धीरतामवलंब्यात्र तिष्ठ. इत्युक्ता साश्वमारुह्य निजगृहे गता, अश्वं च गवाक्षे संस्थाप्य सा मोदकगृहणार्थमोत्सुक्यतोऽपवरके गता.
इतो वातपयोगेण स दारुमयोऽश्वो धरित्र्यां पतित्वा भनः. अथ मोदकान् गृहीत्वा यावत्सा राजपुत्री गवाक्षे समायाता | तावदश्वं भग्नं मह्यां च पतितं विज्ञाय व्याकुलीभूता चिंतयामास हा हा देवेनाहं मुष्टा, मे पूर्वाचीण कर्मोदयमागतं, अरे मे स्वामि समुद्रतटे स्थितः, अश्वश्चात्र भग्नः, अधुना तु ममोपरि दुःखसंघातः पतितः,
||२३२।