________________
श्रीवर्द्धमान जिन देशना ॥२१६॥
श्रीसुरादेवचरित्रम् ॥
器 語辭器张张张张张张韶第語語語弟弟語张游带张张张张张带略带
इति श्रीवर्द्धमानस्वामिनो मुखाद्धर्म श्रुत्वा संवेगयुतमानसः सुरादेवो भावेन श्रावकधर्म जग्राह. ततोऽसावात्मानं कृतार्थ मन्यमानः परिचारयुतः स्वगृहे समागत्य सम्यक प्रकारेण जिनधर्ममाराधयति. एवं धर्मध्यानं कुर्वतस्तस्य चतुर्दशव
ििण गतानि. _ अर्थकदार्द्धरात्रौ धर्मध्याने वर्तमानस्य तस्याग्रे एको देवः प्रकटीभूय जगाद, रे मूढ त्वमैहिकसुखानि त्यक्त्वा तपःल्केशादियुतं श्रावकधर्म कथं पालयसि ? ततश्चेदात्मनः कल्याणमिच्छसि, तदा श्रावकव्रतानि मुंच ? अन्यथा तव ज्येष्टपुत्रमत्रानीय मारयित्वा तन्मांस तप्ततैलकटाहे क्षिप्त्वा तद्रधिरेण त्वां सेचयिष्यामि, ततश्चातध्यानेन मृत्वा त्वं दुर्गतिं यास्यसि एवं तस्य द्वित्रिवारं कथनतोऽपि सुरादेवो निजध्यानान्न चचाल. तदा सुरेण तज्जेष्टपुत्र तत्रानीय मारयित्वा तन्मांसं तप्ततेलकटाहे पाचितं, तद्रुधिरेण च तच्छरीरं लिप्तं. एवं तेन तस्य द्वितीयतृतीयचतुर्थपुत्राणामपि तथैव कृतं, परं स ध्यानान्न चलितः. तदा तेन देवेनोक्तं 'भो सुरादेव अधुनापि चेत्त्वं ब्रतानि न त्यजसि तर्हि तव देहेऽहं कुष्टादिषोडशरोगान् क्षेप्स्या| मि.' एवं तस्य द्वित्रिवारं कथनानंतरं सुरादेवेन चिंतितं नूनमेषः कोऽपि चांडालो दुष्टकर्मकारको दृश्यते, येन मम चत्वारो ऽपि पुत्रा मारिताः, अथैनं दुष्टं गृह्णामीति ध्यात्वा तन्निग्रहाय यावत्स उत्थितस्तावत् स देवो विद्युद्वदाकाशे समुत्पतितः तदा बहिरागत्य तेन कोलाहलः कृतः, तत् श्रुत्वा तस्य धन्नाभिघा भार्या तत्रागत्योवाच 'भो आर्यपुत्र ! यूयं कथं कोलाहलं कुरुथ ?' तदा सुरादेवेन तस्या अग्रे समस्तं स्वरूपं निवेदितं. तत् श्रुत्वा धना पाह' हे स्वामिन् अस्माकं ते चत्वारोऽपि पुत्राः स्वस्वशयनगृहे सुखेन सुप्ताः संति, तथैव भवदीयशरीरेऽपि कोऽपि रोगो नास्त्युत्पन्न: केनापि देवेनागत्यात्र भवता-
॥२१॥