________________
श्री वद्धमान जिनदेशना ॥२१४॥
स्वर्गेऽनयं, तत्र मया नाटकं प्रारब्धं, सुचिरं नृत्यंत्या मया भारखिन्नया शिरसि हस्तः क्षिप्तः, तदा नृत्यतालो भन्नः, तद् ज्ञात्वा क्रुद्धेनेंद्रेण मम नाशिकां छेदयित्वा शापो दत्तो, हे पापे स्वमतः परं मनुष्यलोके एव वस ? प्रमादस्य फलं च क्ष्व ? तदा खिन्नया मया तत्पादयोः पतित्वोक्तं हे स्वामिन् ममास्य शापस्य कदांतो भविष्यति ? तेनोक्तं मनुष्यमांस भक्षयंत्यास्तव यदि कोऽपि पुमान् स्वयमेव ' हे छिन्ननाशिके केन तत्र नाशिका छेदिता ?" इति पृच्छेत्तदा त्वया तव शापांतो ज्ञेयः ततो मयात्रागत्य सर्वोऽपि पुरलोकः स्त्रीतुरगैर्विप्रतार्य भक्षितः, अत्रागता विदेशिजना अपि मया भक्षिताः परं हे वत्स ! अद्यावधि केनाप्यहं पूर्वोक्तं प्रश्नं न पृष्टा. अद्य त्वयैव तत्पृष्ट्वाहं शापात्मुत्कलीकृता, अतो हे वत्स ! त्वमेतदश्वकन्याभिर्युतोऽत्र सुखेन राज्यं कुरु १ इत्युक्त्वा तया संजीविनी विद्यया सर्वेऽपि नगरलोकाः सजीवाः कृताः, एवंसा निर्नाशिका विष्टाय तन्नगरराज्यं दत्वा स्वयं स्वस्थाने स्वर्गे गता.
अष्टिस्तान sft निजमित्राणि मंडलिकपदे संस्थाप्य स्वयं सम्यक् प्रकारेण राज्यं चकार. इत एकः सूरिः साधुपरिवारपरिवृतस्तन्नगरोद्याने समवसृतः, वनपालेनागत्य राज्ञे विज्ञप्तं हे स्वामिन् भवतां वनखंडे साधुपरिवारयुतः सूरिरेकः समवसुतोऽस्ति. ' तत् श्रुत्वा राजा शुद्धभावेन परिवारयुतो गुरुवंदनार्थं चलितः, तत्रागत्य गुरुं त्रिःप्रदक्षिणीकृत्य वंदित्वा च यथास्थानमुपविष्टः, गुरुणापि मधुरवाण्या धर्मोपदेशो दत्तः, यः प्राणी मनुष्यभवं लब्ध्वापि धर्मं न करोति स हस्तगतमपि चिंतामणिरत्नं प्रमादेन महासमुद्रे पातयति. देशनांते राजा गुरुमपृच्छत् 'हे भगवन् अस्माभिः पूर्वभवे कि कर्म कृतं १ येनात्र शाकिनीसंकटे पतिताः सूरिः प्राह हे राजन् ! शृणु १
श्रीमुरादेवचरित्रम् ॥
॥२१४॥