________________
भी बर्द्धमान जिन देशना ॥२०७॥
|श्रीसुरादेवचरित्रम् ॥
強強聯柴柴柴柴柴柴柴柴柴聯際聯端端帶路帶蒂蒂聯张整除器带聯
रपूर्वा मंत्रशक्तिर्वर्तते. ततोऽसौ स्नानं विधाय महोत्सवपूर्वकं निजं नवीनं जन्म मन्यमानो याचकेभ्यो दानं यच्छन् सुखानि भुंक्ते. __ अर्थकदा तद्ग्रामादागतस्य कस्यचिन्मनुष्यस्य चतुरापृच्छत् 'भो पुरुष ! तत्र सूरः किं करोति! तेनोक्तं स तत्र | दानं यच्छन् सुखेन निजकालं गमयति.' तत् श्रुत्वा दुष्टा सा श्वेतमार्जारीरूपं विधाय मत्सरेण सुंदरीभवने समागत्य कदुशब्दानि चकार. तां दृष्ट्वा मातापुत्रीभ्यां कृष्णमार्जारीरूपं विधाय तया सह युद्धं प्रारब्धं. परस्परं नखादिभिर्गाढमहारान् यच्छंति. ततः सा चतुरा निजमंत्रबलेनैते द्वे अपि जर्जरीकृत्य गगने नृत्यंती गता. तद् दृष्ट्वा भीतः सूरस्तयोरपृच्छत् यूयं युद्धं कथं कुरुथ ? सा च श्वेतमार्जारिका कासि?' तत् श्रुत्वा सुंदरी प्राह भो स्वामिन्नेषा मे सपत्नी चतुरासीत. आवाभ्यां सह सपत्नीवरेण च युद्धं कर्तुं समागताभून, किं चास्मत्तस्तस्या मंत्रशक्तिबहुवर्तते, ततः सावां जित्वा गता.' तत् श्रुत्वा सूरेण चिन्तितं घिधिग अहं महाराणां प्रत्यक्षशाकिनीतुल्यानामासां वशे पतितोऽस्मि, अथ किं करोमि ? क्क च गच्छामीति चिन्तातुरोऽसौ तत्र स्थितः. इतो मासांते पुनरपि सा चतुरा श्वेतमार्जारीरूपं विधाय ताभ्यां युद्धं कर्तुं तत्र समायाता. मातापुत्रीभ्यामपि कृष्णमार्जारीरूपं कृत्वा तया सह युद्धं कृतं, परं ते द्वे अपि पराजिते ।
अथ चतुराया गमनानंतरं चिन्तातुराय निजस्वामिने सुंदर्या प्रोक्तं, "हे स्वामिन् अथ यदा सा चतुरात्र समागच्छेत्तदा त्वया प्रकटाक्षरमेव वाच्यं यद् 'भो कृष्णे एनां श्वेतमार्जारी मारयतं? इति च त्वयोक्ते सत्यावयोर्महाशक्तिभविष्यति, तया च शक्त्यावां तां मारयिष्यावः," इतश्चतुरा श्वेतमार्जारीरूपा तत्रागत्य ताभ्यां सह युद्धं कत्र्त लग्ना, तदा सूरोऽवादीत् 'भो
號带聯際聯強強強聯晓晓端端端帶蒂號聯佛聯聯強強強聯佛聯聯聯
॥२०७॥