________________
श्री वर्द्धमान जिन देशना
॥१८९॥
चापूर्वं विलोक्यते. नूनमेषः कोऽपि सत्पुरुषोऽस्ति, अतो मयास्य प्रार्थनाभंगो न कार्यः, इति विचिन्त्य तेन तद्गृहगमनं स्त्रीकृतम् .
अथ सहस्रमलो भूत्वा कामपताकावेश्याया गृहे समागत्य तस्यै कथयामास, भो भो कामपताके ! अद्य महाधनी एको विदेशी अश्वव्यापारी तत्र गृहे निवासार्थमायाति, अतस्तस्य वासार्थं त्वं शीघ्रं गृहं देहि तच्छ्रुत्वा द्रव्याभिलापिणी सापि हृष्टा सती सन्मुखं गत्वा तं व्यापारिणं महतादरेण निजगृहे प्रावेशयत्. भव्यस्थानके निजाश्वान् बद्ध्वा स तस्या गृहे सुखेनातिष्ठत्. अथ पुनः सहस्रमल्लो वेश्यासमीपे समागतः, तदा तयापि तस्मा आसनं दत्वा तत्पादक्षालनमारब्धं. तदा सहस्रमल्लेनोक्तं ' हे भद्रे ! सांप्रतं चरणक्षालनेनालं, अधुना मे राज्ञो मिलनाय मुहूर्त्तं वर्त्तते, अतो मुहूर्त्त यावत्तवाभरणानि मे समर्पय ? यथा तानि परिधाय राजानं मिलित्वा तत्क्षणमेवागत्य तेऽहं समर्पयामि बहुद्रव्यप्राप्तिमनोरथै कमानसया तयापि तस्मै निजाभरणानि दत्तानि ततोऽसौ तस्य व्यापारिणः पार्श्वे समागत्य कथयामास 'भो बांधव ! सांप्रतं मे राज्ञो मिलना मुहूर्त्त वर्तते, अतस्तत्र गंतुकामोऽस्मि, ततो मुहूर्त्त यावत्तवाश्वमध्यात्प्रधानमेकमवं मह्यं देहि ? मुहूर्तांतरहं पश्चात्समेष्यामि.' तच्छ्रुत्वा विश्वस्तेन तेन व्यापारिणापि तस्मै प्रधानाश्वो दत्तः अथ सहस्रमल्लस्तमश्वमाह्याभरणभूषितो निजगृहे समागत्याभरणादि स्वजनन्यै समर्पयामास इतो बहुवेलयापि तस्याऽनागमनेन विह्वलीभूतया कामपताकया राजद्वारे गत्वा कचित्पृष्टो, 'भो पुरुष ! अत्र कोऽपि तुरगारूढो व्यापारी समागतो न वा ?' तेनोक्तमत्र कोऽपि समागतो नास्ति तदातीवव्याकुलया तया गृहे समागत्य सोऽश्वव्यापारी पृष्टः, 'अरे ! अधुनापि स कथं
चुलनीपिता श्रावक
चरित्रम्
।।१८९ ।।