________________
श्री वर्द्धमान जिन देशना
॥ १८७॥
*******
अथैकदा स पुरोहितगृहे गत्वा क्षात्रं दत्वा प्रचुरं धनं गृहीत्वा जनन्यै समर्पयामास. जनन्योक्तं 'हे पुत्र ! एतावद्धनं त्वया कुतो लब्धं ?" तेनोक्तं ' हे अंब ! एतया चिन्तया तत्र किं ? प्रत्यूषे त्वया नगरे गत्वा लोकवाणीं श्रुत्वा मदग्रे तत्सर्वं कथनीयम्. '
अथ सापि नगरमध्ये गता, तत्रैकस्थाने भूरिस्त्रियो मिलितास्तया दृष्टाः, तत्र गत्वा सा तासां वार्त्तालापं शुश्राव . ताः परस्परं कथयंति अद्य तु पुरोहितगृहं केनापि तस्करेण मुषितं. तदैकया पृष्टं 'चौरस्य शुद्धिर्जाता न वा ?' अपरावादीत् 'पुरोहितेन गत्वा राज्ञे तन्निवेदितं. राज्ञा चारक्षकं आकार्य निर्भत्सितः तदा घनसारश्रेष्ठ्यवादीत् हे स्वामिन नूनं स चौरो बहुद्रव्यमानीय मम हट्टे प्रवरवस्त्रग्रहणार्थमायास्यति, तदा चाहं तं गृहीष्यामि तच्छ्रुत्वा तत्रस्थेनैकेन दिवाकीर्तिनोक्तं शिरोनखशुद्धयर्थं ध्रुवं स मे गेहेऽपि समागमिष्यति तदाहमपि तं गृहिष्यामि भवद्भश्च समर्पयिष्यामीति' स्त्रीणामालापं श्रुत्वा चौरजननी गृहे समागत्य तत्सर्वं स्वपुत्राय कथयामास.
ततः स चौरो वणिग्वेषं विधाय तस्य नापितस्य गृहे समागतः, नापितोऽपि तं महाश्रेष्ठिनं विज्ञाय मनोहरमासनं दत्वा तस्याग्रे समुपविष्टः, ततस्तेन तस्य शिरोनखशुद्धिं विधाय स्नानं कारितं. स्नानांतरमुत्थितः सहस्रमल्लो नापितं प्रत्युवाच ' भो नापित ! तवैनं पुत्रं मया सार्थ प्रेषय ? यथा ममापणात्तव सेवामूल्यं तस्मै यच्छामि तेनापि द्रव्यार्थी तेन साथै निजपुत्रः प्रेषितः, ततोऽसौ नापितपुत्रयुतो धनसारश्रेष्ठिनो हट्टे गतः, श्रेष्ठिनापि तद्वेषेण तं महाव्यापारिणं परिज्ञायासनं दत्तं, ततस्तेन श्रेष्ठिने प्रोक्तं ' चेत्तव पार्श्व बहुमूल्यानि वस्त्राणि स्युस्तर्हि दर्शय यथाहं गृह्णामि . ' श्रेष्ठि
चुलनीपिताश्रावक चरित्रम् ॥
॥ १८७॥