________________
श्रीवर्द्धमान जिन देशना ॥१७७॥
श्रीरत्नसार | कथा ।
染器器樂器端藥蒸發器端端器器器器器器器器器器樂器器鉴發柴染號
तिभिः सक्रियमाणः कियद्भिर्दिवसः स विशालायां नगयाँ प्राप्तः,
एवं तस्य समृद्धिविस्तारं दृष्ट्वा समरसिंहराजा तस्य सन्मुखं समागतः, ततो वसुसारादीभ्यसहितो राजा महामहोत्सवेन तं नगरे प्रवेशयामास. ततस्तेन शुकराजेन नृपादीनां पुरतः कुमारस्याखिलं चरित्रं कथितं. तत् श्रुत्वा सर्वे लोकाश्चमस्कृतास्तस्यातीवप्रशंसां चक्रुः एवं स रत्नसारकुमारस्तत्र स्थितो विविधानि मानुष्यसुखानि भुक्त.
अथान्यदा तन्नगरोधिने श्रीधर्ममूरय आगत्य समवसृताः, तदा नृपरत्नसारप्रमुखा नगरलोकास्तेषां वंदनाथै तत्र गताः, सरीन् वंदित्वा च यथास्थानमुपविष्टाः, आचार्यैरपि देशना दत्ता, देशनांते राज्ञा पृष्टं, 'हे भगवन् ! रत्नसारस्य पूर्वभवं कथयत? अनेन पूर्वभवे किं सुकृतं कृतं ? यथेह तेनेदृशी समृद्धिः संप्राप्ता.'
अथ चतुर्ज्ञानयुतास्ते गुरवः कथयंति, " अस्मिन् भरतक्षेत्रे राजपुराभिधं नगरमस्ति, तत्र जिनशत्रुनामा राजा राज्यं करोति. तस्य राज्ञः श्रीसाराभिधः पुत्रोऽस्ति, तस्य श्रीसारस्य च त्रीणि मित्राणि संति, एकः क्षत्रियपुत्रो, द्वितीयोऽमात्यपुत्रस्तृतीयश्च श्रेष्ठिपुत्रः, एतेषां परस्परमतीव स्नेहो वर्तते, __ अथैकदा राज्ञीगृहे चौरेण क्षात्रं दत्वा धनं गृहीतं. कोट्टपालेन दृष्टोऽसौ बध्धा राज्ञे समर्पितः, राज्ञा कथितमेष हन्यतां तदा कोट्टपालेन वधाय नीयमानः स चौरः श्रीसारकुमारेण दृष्टः. कुमारेण कोट्टपालं प्रति पृष्टं कोऽसौ जनोऽस्ति ?तेनापि तस्य सर्वो वृत्तांतः कथितः, तदा कुमारेणोक्तं 'मम मातुर्द्रव्यह यमस्ति, अतोऽहं स्वयमेवास्य दंडं करिष्यामि.' इत्युक्त्वा तस्य पात्तिं चौरं गृहीत्वा स बहिराजगाम. ततः कृपायुतः कुमारस्तस्य चौर्यकरणशपथं दत्वैकांते तं मोचयामास. महतां हि
聯號聯藥鱗器藥藥聽器聽聽聽聽聽聽聽器器器禁藥謊聽器器蒂蒂蒂貓
॥१७७॥