________________
श्री वर्धमान जिन देशना ॥१३४॥
श्रीसुमतित्रीकथा॥
多遊:帶路帶继染整器器端端帶柴柴榮帶器端蹤器器器樂器器器蒸器等號
जातोऽस्मीति मार्गे लोकान् प्रतिजल्पन् बहुसेवकैः परिवृतो राज्ञः पार्श्व गन्तुं लग्नः. इतः कैश्चित्सुभटैः प्रकटीभूय हतहतेत्युस्वा स प्रतीहारो मार्ग एव मारितः, द्रव्यं च समस्तं लुष्टितं. राजा तद्वृत्तान्तं श्रुत्वा क्रोधान्धीभूत एवमवादीदहो ममैप प्रतीहारो दुष्टेन मंत्रियया मारितः, अतोऽस्य मंत्रिणो यदि खड्नेनाहं शिरश्छेत्स्यामि तदैव मे निवृत्तिर्भविष्यति. एवं गाढस्वरेण जल्पन् यत्र स प्रतीहारो बहुसुभटैः सह पतित आसीत्तत्रागत्यासौ विलोकयामास. परमेतान् सुभटान् वैदेशिकान् दृष्ट्वा विस्मितो राजा तानपृच्छन्, 'भो सुभटा युप्माभिर्मे प्रतीहारः कथं मारितः?' तैरुक्तं 'हे राजन्नस्मद्राज्ञोऽभाग्ययोगात्तन्मनोरथा न फलीभूताः,' राज्ञोक्तं 'कथं ?' तेरुक्तं शृणु ?
'धारावासाभिधमेकं नगरमस्ति, तत्र सूरसेनाख्यो राजा राज्यं करोति, तत्पार्धात्तव सुमित्रो मंत्री तवार्थ प्रतिवर्ष दण्डं गृह्णाति, एवं सोऽस्मत्स्वामिनं पीडयति. ततोऽस्मद्राज्ञ आदेशेन वयं तं मारयितुमत्र समागता आस्मः, इतोऽहं मंत्र्यस्मीति मार्गे ब्रुवन् मंत्रिधिया युष्मत्प्रतीहारोऽस्माभिर्मारितः,' तत् श्रुत्वा कोपेन राज्ञाः ते सुभटा मारिताः, ततो राजा बहुपरिवारयुतो मंत्रिगृहे समागत्य तं क्षामयामास, कथितं च 'भो मंत्रिन् ! यदि त्वमद्यैतद्वतं न गृहणीथास्तदा तव नूनं मृतिभवेत् , मम राज्यस्य च त्वां विना का गतिः स्यात् ? एवं हे मंत्रिन् ! मयाद्य प्रत्यक्षमेव धर्मफलं दृष्टमस्ति, धन्यस्त्वं कृतपुण्यस्त्वं, ममैनमपराध क्षमस्व, तथैन मां सुधर्म संस्थाप्य संसारसमुद्रात्तास्य ?'
तत् श्रुत्वा मंत्री जगाद ' हे स्वामिन्नत्रार्थ तव कोऽप्यपराधो नास्ति, अतः परं वं जैनधर्म मतिं कुरु ?' अथ राजा पुनरपि तस्मै मंत्रीमुद्रां समर्प्य पूर्णचंद्रसुगुरुषार्थात् श्राद्धधर्म गृहीतवान्. ततोऽसौ मंत्रिणा प्रेरितो देवा! सुपात्रदानं जिन
臻臻臻聯蒂蒂器藤藤張曉曉器端器跳器藤聯晓蒸聯券柴第
॥१३४॥