________________
श्रीवर्धमान जिनदेशना ॥१३२॥
श्री सुमित्रमंत्रीकथा॥
談論礎端器器器端器器端藥器器器鑑器 聯號蒂蒂蒂蒂蒂蒂器蒸蛋器
दानं ददाति, एतद्व्तप्रभावेण च जीवानां सर्वविघ्नानि नभ्यंति, सुमित्रमहामंत्रिवच्च स इह लोके परलोके च सुखी भवति.' तत् श्रुत्वानंदः पृच्छति, 'हे भगवन् ! को सौ सुमित्रो मंत्री ? कथं च तेन देशावकासिकं व्रतं पालित ! भगवानाह "भो श्राद्धा! त्वं सावधानतया जुणु ? 'अस्मिन् भरतक्षेत्रे सकलनगरीणां मध्ये प्रधाना श्रीचन्द्राभिधा नगरी वर्तते, तत्र तारापीडाभिधो राजा गज्यं कुर्वन न्यायेन प्रजा पालयति.तस्य राज्ञः सुमित्राभिधो मंत्री वर्तते, स जैनधर्मरतः परमश्राद्धो नवतत्ववेत्ता सन् प्रत्यहं देवपूजां धर्मश्रवणं सुपात्रदानं प्रतिक्रमणादि च करोति. ___इत्यादिधर्मकृत्यानि कुर्वन्तं तं मंत्रिणं प्रत्येकदा राजा बभाषे. 'हे मंत्रिन ! एवंविधैर्धर्मकृत्यैस्त्वं मुधात्मानं किं विडंबयसि ? तपसा शरीरं च कि शोषयसि ? तत् श्रुत्वा मंत्रिणोक्तं 'हे राजन् ! त्वमेवं मा वद ? युष्मादृशैस्तु मादृशानां धर्मकार्येषु प्रत्युत प्रेरणेव कर्तु योग्या. अस्मिन् संसारे धर्मकृत्यान्येव शुभफलानि यच्छंति, स्वर्गमोक्षसौख्यान्यपि जीवा धर्मेणैव प्राप्नुवन्ति, धर्म विना जीवस्य कुत्रापि सुखं न स्यात्.' तत् श्रुत्वा राजावादीत् 'तर्हि भो मंत्रिन् ! त्वं मे धर्मस्य फलं प्रत्यक्षमेव दर्शय?' तत् श्रुत्वा मंत्री जगाद 'हे राजन् ! त्वं यद्राजा जातोऽसि, चतुरंगसैन्यसहिताः सर्वे लोकास्तवाज्ञां मन्यन्ते हस्तौ संयोज्य च तव सेवां कुर्वन्ति, तत्सर्व त्वं धर्मस्यैव फलं जानीहि ?' तदा राजाह ' हे मंत्रिन् ! त्वं शृणु ? एका शिला द्विधा कृता, तयोरेकेन खण्डेन सोपानं कृतं, द्वितीयेन च कस्यापि देवस्य प्रतिमा कृता, तत्किमेकेन खण्डेन पुण्यं न कृतं ? अपरेण च कृतमासीत् ? अपि तु नैव, एवमेषापि स्थितिवर्त्तते यदयं राजा एष मन्त्री एते च सेवका इति.' तत् श्रुत्वा मंत्री प्राह 'भो राजन् एष उपलदृष्टांतो जीवेन सह न लगति. धर्माधर्मयोर्विद्यमानयोरेव जीवा धर्माधर्मफलं भुञ्जन्ते' तदा राजोवाच 'हे
器路端器器馨器鉴器验聯聯榮器端路器能躲柴柴柴聯華聚能聯聚
|॥१३२॥