________________
श्री बर्द्धमान जिन देशना ॥१०॥
श्री केशवकथा॥
藥強強器器器端端端端端端器端端端藥器端端端端端端端樂器端端端
बहुदेशान् साधयित्वा स राजाधिराजो जातः सन् निजप्रजामिव प्रजा पालयन सुखेन निजकुटुंबमिलनोत्सुकस्तत्र तिष्ठति.
अथान्यदा गवाक्षोपविष्टः केशवनृप इतस्ततः पश्यन् पथि महामलिनवस्त्रावृतं श्रान्तं रंक इवेतस्तता भ्रमन्तं चिन्ताव्यग्रमानसं निजपितरं यशोधरं यान्तं ददर्श. तत्क्षणमेव केशवो गवाक्षादुत्तीर्य तत्र गत्वा निजजनकपादयोः पतितः, तद् दृष्ट्वा राजसेवकादिनगरलोका विस्मिताः सन्तश्चिन्तयामासुरहो ईदृग्विभूतियुक्तस्याप्यस्य नरेन्द्रस्याय रंको जनकः कथं संभवेत् ? इतो राजा पितरं पृच्छति 'हे तात ! भवतामेपावस्था कथं जाता ?' तत् श्रुत्वा श्रेष्ठी निजपुत्रस्य राज्यपदवीं निरीक्ष्य मुदितो हर्षाणि मुश्चन्निजवृत्तान्तं कथयामास, 'हे पुत्र ! यदा त्वं गृहानिर्गतस्तदा हंसो मया भोजनायोपावेशितः, एवं रात्रौ यदाई तेन भुक्तं तदासौ मूर्छया धरित्र्यां पतितः, तद् दृष्ट्रवा वयं व्याकुलीभूताः, इतस्ते जननी तत्र दीपं समानीय याव. त्पश्यति तावत्तस्य भोजने ऊर्ध्वभागस्थसपमुखात्पतन्तं गरलं दृष्टं तदा खेदितैरस्माभिश्चिन्तितं 'धन्योऽयं केशव एव, यो व्रतविषये निश्चलोऽभूत्.'
इतोऽस्माकमाक्रन्दनं श्रुत्वा सर्वोऽपि स्वजनवर्गस्तत्र मिलितो हंसस्योपचारं कर्त लग्नः, परं तस्य मनामपि गुणो नाभूत. तदैवैको मान्त्रिक आकारितः. सोऽपि हंस तथावस्थं दृष्ट्वाऽवदत् 'भो लोका युयं मम वचनं शणुत ? एतद्गरलसंक्रमणादस्यांगानि गलित्वा पतिष्यन्ति, एवं चासौ मासमेकं जीविष्यति.' तत् श्रुत्वा दिनपश्चकं गृहे स्थित्वाहं तव विलोकनार्थ निर्गतः, सर्वत्र च त्वां पश्यन् भ्रमामि, अद्य च पुण्ययोगेन त्वं दृष्टोऽसि, हे पुत्र ! गृहानिर्गतस्य ममायेको मासोऽभूत, अतोऽद्य तव भ्राता मृतो वा मरिष्यति.'
樂器带能继器藥端遊樂器端發藥端端樂器器鑑器蹤器蒸號號號號號號
॥१०४॥