SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सू०५६] सप्तमः परिच्छेदः १२१ घटपटादिज्ञानानां कादाचिकत्वेन पटादिवत कार्यत्वप्रसिद्धेः । न च विशेषणाऽसिद्धः, 'शरीरेन्द्रियविषयाः चैतन्यधर्माणो न भवन्ति, रूपादिमत्वात् , भौतिकत्वाद् वा, घटवद्' इत्यनुमानेन शरीरादिषु चैतन्यस्य बाधितत्वात् । नाप्ययं व्यभिचारी विरुद्धो वा, विपक्षादत्यन्तव्यावृत्तत्वात् । " उपयोगलक्षणो जीवः” इत्यादिस्वरूपेणाऽऽगमेनाप्यात्मनः सिद्धिर्भवतीति ॥ ५५ ॥ चैतन्यस्वरूपः, परिणामी, कर्ता, साक्षाद्भोक्ता, स्वदेहपरिमाणः, प्रतिक्षेत्रं भिन्नः, पौद्गलि ___ काऽदृष्टवांश्चायम् ॥ ५६ ॥ "चैतन्यस्वरूपः” इत्यनेन जडाऽऽत्मवादिनां नैयायिकादीनां निरासः। “परिणामी" इत्यनेन कूटस्थनित्यतावादिनां सांख्यादीनां तिरस्कारः । “कर्ता साक्षाद्भोक्ता" इतिविशेषणद्वयेन कोपिलमतं पराकृतम् । “ स्वदेहपरिमाणः" इत्यनेन व्यापकाऽऽत्मवादिनां नैयायिकादीनां प्रतिक्षेपः । “प्रतिक्षेत्रं भिन्नः" इत्यनेनैकाऽऽत्मवादिनामद्वैतवेदान्तिनां खण्डनम् । “ पौद्गलिकादृष्टवांश्चायम्" इत्यनेनादृष्टस्याऽपौद्गलिकत्वमभ्युपगच्छतां नैयायिकादीनां निरासः ॥ ५६ ।। १. युअनं योगः-ज्ञान-दर्शनयोः प्रवर्तन-विषयावधानाभिमुखता । सामीप्यवर्ती योग उपयोगः-नित्यः संवन्ध इत्यर्थः । स च ज्ञानादिमेदेन द्वादशविधः, तत्रैकतमो जघन्यतया जीवस्य भवत्येवोपयोगः । -सं० । १. वांश्च क । ३. सांख्यमतम् ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy