SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ स०५०-५३] सप्तमः परिच्छेदः ऋजुसूत्रो वर्तमानक्षणस्थायिनः पदार्थान् प्रकाशयतीत्यल्पविषयः, व्यवहारस्तु कालत्रयवर्तिपदार्थजातमवलम्बत इति बहुविषयः ॥४९॥ कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाहजुमूत्र स्तद्विपरीतवेदकत्वाद् महार्थः ॥५०॥ शब्दनयो हि कालादिभेदेन पदार्थभेदमङ्गीकरोतीत्यल्पविषयः, ऋजुसूत्रस्तु कालादिऽभेदेप्यभिन्नमर्थं प्रदर्शयतीत्यनल्पार्थः ॥ ५० ॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्द स्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ॥५१॥ पर्यायशब्दानां व्युत्पत्तिभेदेन भिन्नार्थतामभ्युपगच्छतीति समभिरूढोऽल्पविषयः, शब्दनयस्तु पर्यायशब्दानां व्युत्पत्तिभेदेनाप्यभिन्नार्थतामङ्गीकरोतीति बहुविषयः ।। ५१ ॥ प्रतिक्रियं विभिन्नमर्थ प्रतिनानानादेवंभूतात् समभि- ___ रूढस्तदन्यार्थस्थापकत्वाद् महागोचरः ॥५२॥ क्रियाभेदेनार्थभेदमभ्युपगच्छत एवंभूतात् क्रियाभेदेऽप्यर्थाऽभेदं प्रतिपादयन् समभिरूढोऽनल्पविषयः ।। ५२ ॥ नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधि-प्रतिषेधाभ्यां सेप्तभङ्गीमनुव्रजति ॥ ५३ ॥ १. नयसप्तभग्योः कीदृशी स्थापनापद्धतिः ? कीदृशश्च वचनप्रकारः ? इति नयविद्याविदः सुधियो यदि स्पष्टं लिखेयुस्तदा मयतात्पर्यजिज्ञासूनां महानुपकारो भवेत् । कष्टमत्र यदन्विष्यमाणेऽपि न कुत्राऽपि संशयोच्छेद. कारिणो स्फुटताऽस्मिन् विषये दृष्टाऽस्माभिः। आधुनिका विशिष्टविद्वांसः न
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy