________________
परिशिष्ट
२४७
त्वसौ इष्यते ।'—मनोरथन० पृ० ७ । 'प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि तद्विषयमात्राध्यवसायत्वात् सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावः ।' प्रमेयक० ३-१३ । 'अथ प्रत्यक्षपृष्ठभाविविकल्पात् साकल्येन साध्यसाधनभावप्रतिपत्तेर्न प्रमाणान्तरं तदर्थं मृग्यमित्यपरः ।'-प्रमेयर० पृ० ३७ । 'ननु यदि निर्विकल्पकं प्रत्यक्षमविचारकं तहिं तत्पृष्ठभावी विकल्पो व्याप्तिं गृहीष्यतीति चेत्, नैतत्, निर्विकल्पेन व्याप्ते रग्रहणे विकल्पेन गृहीतुमशक्यत्वात् निर्विकल्पकगृहीतार्थविषयत्वाद्विकल्पस्य ।'-प्रमाणमी० पृ० ३७ । 'प्रत्यक्षपृष्ठभाविविकल्परूपत्वान्नायं प्रमाणमिति बौद्धाः।'-जैनतर्कभा० पृ०११ ।
पृ० ६५ पं० २ स हि विकल्पः' । तुलना-'तद्विकल्पज्ञानं प्रमाणमन्यथा वेति ? प्रथमपक्षे प्रमाणान्तरमनुमन्तव्यम्, प्रमाणद्वयेऽनन्तर्भावात् । उत्तरपक्षे तु न ततोऽनुमानव्यवस्था । न हि व्याप्तिज्ञानस्याप्रामाण्ये तत्पूर्वकमनुमानं प्रमाणमास्कन्दति सन्दिग्धादिलिङ्गादप्युत्पद्यमानस्य प्रामाण्य प्रसङ्गात् ।'–प्रमेयर० पृ० ३८ । 'स तर्हि प्रमाणमप्रमाणं वा ? प्रमाणत्वे प्रत्यक्षानुमानातिरिक्त प्रमाणान्तरं तितिक्षितव्यम् । अप्रामाण्ये तु ततो व्याप्तिग्रहणश्रद्धा षण्ढात्तनयदोहृदः ।'-प्रमाणमी० पृ० ३७ । ।
पृ० १३० पं० ५ स्वतन्त्रतया' । तुलना—'ते एते गुणप्रधानतया परस्परतन्त्राः सम्यग्दर्शनहेतवः पुरुषार्थक्रियासाधनसामर्थ्यात्तन्त्वादय इव यथोपायं विनिवेश्यमानाः पटादिसंज्ञाः स्वतन्त्राश्चासमर्थाः । निरपेक्षेषु तन्त्वादिषु पटादिकार्य नास्तीति ।'-सर्वार्थसि० १-३३ । तत्त्वार्थवा०१-३३
'मिथोऽनपेक्षाः पुरुषार्थहेतुर्नीशा न चांशी पृथगस्ति तेभ्यः । परस्परेक्षाः पुरुषार्थहेतुर्दष्टा नयास्तद्वदसि क्रियायाम् ।।'
–युक्त्यनुशा० का० ५१ । पृ० १३० पं० ७ 'मिथ्यात्वस्यापि' । तुलना-एवमेते शब्दसमभिरूद्वैवंभूतनया: सापेक्षाः सम्यक् परस्परमनपेक्षास्तु मिथ्येति प्रतिपादयति
इतोऽन्योन्यमपेक्षायां सन्तः शब्दादयो नयाः । निरपेक्षाः पुनस्ते स्युस्तदाभासाविरोधतः ।।'-तत्त्वार्थश्लो॰पृ० २७४ ।