________________
परिशिष्ट
२४५ पृ० ३२ पं० ६ 'अवायः' । तुलना-'अवायो विनिश्चयः'-लघीय० का० ५। 'विशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः ।'—सर्वार्थसि० १-१५ । तत्त्वार्थवा० १-१५ । तत्त्वार्थश्लो० पृ० २२० । प्रमाणप० पृ० ६८ । प्रमाणमी० १-१-२८ । जैनतर्कभा० पृ० ५। __ पृ० ३३ पं० १ 'धारणा' । 'धारणा स्मृतिहेतुः'-लघीय० का० ६ । धारणा प्रतिपत्तियथास्वं मत्यवस्थानमवधारणं च धारणाप्रतिपत्तिः अवघारणमवस्थानं निश्चयोऽवगमः अवबोध इत्यनर्थान्तरम् ।'–तत्त्वार्थाधि० मा० १-१५ । 'अर्थतस्य कालान्तरे विस्मरणकारणं धारणा'—सर्वार्थसि० १-१५ । तत्त्वार्थवा० १-१५ प्रमाणप० पृ० ६८ । प्रमाणमी० १-१-२६ । जैनतर्कभा०पृ० ५ । 'महोदये च कालान्तरविस्मरणकारणं हि धारणाभिधानं ज्ञानम् । अनन्तवीर्योऽपि तथानिर्णीतस्य कालान्तरे तथैव स्मरणहेतुः संस्कारो धारणा इति'–स्या० रत्ना० पृ० ३४६ । .. पृ० ३८ पं० ६ 'कथं पुनरेतेषां' । तुलना—'कथं पुनरनक्षाश्रितस्य ज्ञानस्यायं प्रत्यक्षव्यपदेश इति चेन्न, अक्षाश्रितत्वं प्रत्यक्षाभिधानस्य व्युत्पत्तिनिमित्तं गतिक्रियेव गोशब्दस्य ! प्रवृत्तिनिमित्तं त्वेकार्थसमवायिनाऽक्षाश्रितत्वेनोपलक्षितमर्थसाक्षात्कारित्वं गतिक्रियोपलक्षितगोत्ववत् गोशब्दस्य अन्यद्धि शब्दस्य व्युत्पत्तिनिमितं अन्यद्वाच्यम् । अन्यथा गच्छन्त्येव गौगौरित्युच्येत नान्या व्युत्पत्तिनिमित्ताभावात् । तथेहकेवलज्ञाने व्युत्पत्तिनिमित्तस्याक्षाश्रितत्वस्याभावेऽपि... प्रवृत्ति निमित्तस्यार्थसाक्षात्कारित्वस्य भावात् प्रत्यक्षाभिधानप्रवृत्ति रविरुद्धा।'-लघुसर्वज्ञपृ० ११६ । न्यायकु० पृ० २६ । __ पृ० ३६ पं० १ ‘अक्ष्णोति' तुलना-'अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा, तमेव प्राप्तक्षयोपशमं प्रक्षीणावरणं वा प्रतिनियतं प्रत्यक्षम्।' सर्वार्थसि० १-१२ । तत्त्वार्थवा० १-१२ । तत्त्वार्थश्लो० १-१२ । प्रमाणप० पृ० ६८ । न्यायकु० पृ० २६ । 'न क्षीयते इत्यक्षो जीवस्तं प्रति वर्त्तते इति प्रत्यक्षम्'-प्रमाल० पृ० ४ ।