________________
७४
प्रकारान्तरेण विनयभेदाः। प्रवचनसारोद्धारे पञ्चषष्टितमे द्वारे प्रोक्ता विनयस्य द्विपञ्चाशद्भेदाः पुष्पमालोक्ताऽनाशाताविनयद्विपञ्चाशद्भेदतुल्या एव सन्ति । तथा च तन्मूलवृत्त्योरुक्तम् - 'इदानीं 'विणओ बावन्नभेयपडिभिन्नो' त्ति पञ्चषष्टं द्वारमाह - १तित्थयर १ सिद्ध २ कुल ३ गण ४ संघ ५ किरिय ६ धम्म ७ णाण ८ णाणीणं ९ । आयरिय १० थेरु ११ वज्झाय १२ गणीणं १३ तेरस पयाइं ॥५४९॥ अणासायणा १ य भत्ती २ बहुमाणो ३ तह य वण्णसंजलणा ४ । तित्थयराई तेरस चउगुणा हुंति बावण्णा ॥५५०॥
'तित्थे'त्यादिगाथाद्वयम्, तीर्थकरादिस्वरूपाणि तावत् त्रयोदश पदानि, तत्र तीर्थकर-सिद्धौ प्रसिद्धौ, कुलं-नागेन्द्रकुलादि, गणः-कोटिकादिः, सङ्घ-प्रतीतः, क्रिया-अस्तिवादरूपा, धर्म:- श्रमण-श्रावकधर्मादिः, ज्ञानं-मत्यादि, ज्ञानिनः - तद्वन्तः, आचार्यः - प्रतीतः, स्थविरः-सीदतां स्थिरीकरणहेतुः, उपाध्यायः - प्रसिद्धः, कियतोऽपि साधुसमुदायस्याधिपतिर्गणी ।
यदि नामैतानि च त्रयोदश पदानि ततः किमित्याह - आशातना - जात्यादिहीलना तदभावोऽनाशातना तीर्थकरादीनां सदैव कर्तव्या, तथा भक्तिः - तेष्वेवोचितोपचाररूपा, तथा बहुमानः - तेष्वेवान्तरङ्गप्रतिबन्धविशेषः, तथा तेषामेव 'वर्णसञ्वलना' वर्ण:-कीर्तिस्तस्य सज्वलना-प्रकाशनम् । अनेन प्रकारेण तीर्थकरादयस्त्रयोदश चतुर्गुणा अनाशातनाद्युपाधिभेदेन द्विपञ्चाशद्विनयभेदा भवन्तीति ।'
पुष्पमालावृत्तावपि मलधारि-श्रीहेमचन्द्रसूरिभिरेकसप्ततितमगाथाविवरणे प्रोक्तम् -
દ્વારમાં કહેવાશે.” પ્રવચનસારોદ્ધારના ૬પમા દ્વારમાં કહેલા વિનયના પર ભેદ પુષ્પમાળામાં કહેલા અનાશાતના વિનયના પર ભેદ સમાન જ છે.
પુષ્પમાળાની ૭૧મી ગાથાની વૃત્તિમાં મલધારી શ્રી હેમચન્દ્રસૂરિ મહારાજે કહ્યું છે
१. तीर्थकर-सिद्ध-कुल-गुण-सङ्घ-क्रिया-धर्म-ज्ञान-ज्ञानिनाम् ।
आचार्य-स्थविर-उपाध्याय-गणिनां त्रयोदश पदानि ॥५४९॥ अनाशातना च भक्तिः बहुमानः तथा च वर्णसज्वलना । तीर्थकरादयः त्रयोदश चतुर्गुणा भवन्ति द्विपञ्चाशत् ॥५५०॥