SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ - श्रीसिद्धहेमचन्द्रशब्दानुशासनम् आधारात् परात् चरेष्ट: स्यात् । कुरुचरी ॥१३८॥ भिक्षा-सेना-ऽऽदायात् ।५।१।१३९॥ एभ्यः परात् चरेष्टः स्यात् । भिक्षाचरी, सेनाचरः, आदायचरः ।।१३९॥ पुरो-ऽग्रतोऽग्रे सर्तेः ।५।१।१४०॥ एभ्यः परात् सर्तेष्टः स्यात् । पुरःसरी, अग्रतःसरः, अग्रेसरः ॥१४०।। पूर्वात् कर्तुः ।५।१।१४१॥ पूर्वात् कर्तृवृत्तेः परात् सर्तेष्ट: स्यात् । पूर्वसरः । कर्तुरिति किम् ? पूर्वसारः ॥१४१॥ स्था-पा-स्ना-त्रः कः ।५1१1१४२॥ नाम्नः परेभ्य एभ्यः 'कः' स्यात् । समस्थः, कच्छपः, नदीष्णः, धर्मत्रम् ॥१४२॥ शोकापनुद-तुन्दपरिमृज-स्तम्बेरम-कर्णेजपं प्रियाऽलस हस्ति-सूचके ।५।११४३॥ एते यथासंख्यं प्रियादिष्वर्येषु ‘कान्ता' निपात्यन्ते । शोकापनुदः प्रियः, तुन्दपरिमृजोऽलसः, स्तम्बेरमो हस्ती, कर्णेजपोऽतिखलः । एष्विति किम् ? शोकापनोदो धर्माचार्यः ॥१४३॥ मूलविभुजादयः ।५।११४४॥ एते ‘कान्ता' यथादर्शनं निपात्यन्ते । मूलविभुजो रयः, कुमुदं कैरवम् ॥ 1५1१1१४५॥ नाम्नः पराद् दुहे'-दुघः' स्यात् । कामदुघा ॥१४५।। मजो विण ।५।११४६॥ नाम्नः पराद् भजे- “विण् स्यात् । अर्घभाक् ॥१४६॥ मन्-वन-क्वनिप्-विच क्वचित् ।५।१।१४७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy