________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१७
बहु-विध्वरुस्तिलात् तुदः ।५।१।१२४॥ एभ्यः कर्मभ्यः परात् तुदेः 'खश्' स्यात् । बहुन्तुदः, विधुन्तुदः, अरुन्तुदः, तिलन्तुदः ॥१२४॥
ललाट-वात-शर्टात् तपा-ऽज-हाकः ।५।१।१२५॥ एभ्यः कर्मभ्यः परेभ्यो यथासङ्ख्यं तपा-ऽज-हाग्भ्यः 'खश् स्यात् । ललाटन्तपः, वातमजः, शर्टअहः ॥१२५॥
असूर्योग्राद् दृशः ।५।१११२६॥ आभ्यां कर्मभ्यां पराद् दृशेः 'ख' स्यात् । असूर्यम्पश्यः, उग्रम्पश्यः ।।
इरम्मदः ।५।११२७॥ इरापूर्वाद् मदेः 'ख' स्यात् । इरम्मदः ॥१२७।। नग्न-पलित-प्रिया-ऽन्ध-स्थूल-सुभगा-ऽऽय-तदन्ताळ्य
घेऽच्चेर्भुवः खिष्णु-खुकञौ ।५।१।१२८॥ नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाळ्यन्तेभ्यश्व्यर्थवृत्तिभ्यः पराद् भुवः 'खिष्णुखुको स्याताम् । नग्नम्मविष्णुः, नग्नम्भावुकः; पलितम्भविष्णुः, पलितम्भावुकः; प्रियम्भविष्णुः, प्रियम्भावुकः; अन्धम्मविष्णुः, अन्धम्भावुकः; स्थूलम्मविष्णुः, स्थूलम्भावुकः; सुभगम्भविष्णुः, सुभगम्भावुकः; आयम्भविष्णुः, आयम्भावुकः; तदन्तः- सुनग्नम्मविष्णुः, सुनग्नम्भावुक इत्यादि । अच्वेरिति किम् ? आद्यी-भविता ॥१२८॥
कृगः खनट् करणे ।५।१।१२९॥ नग्नादिभ्योऽच्च्यन्तेभ्यश्व्यर्थवृत्तिभ्यः परात् कृगः करणे 'खनट्' स्यात् । नग्नकरणं घूतम्, पलितकरणम्, प्रियकरणम्, अन्धङ्करणम्, स्थूलङ्करणम्, सुभगङ्करणम्, आयकरणम्, सुनग्नङ्करणम् । व्यर्थ इति किम् ? नग्नं