________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् शकि-तकि-चति-यति-शसि-सहि-यजि-भजि-पवर्गात्
1५1११२९॥ एभ्यः पवर्गान्ताच्च 'यः' स्यात् । शक्यम्, तक्यम्, चत्यम्, यत्यम्, शस्यम्, सह्यम्, यज्यम्, भज्यम्, तप्यम्, गम्यम् ॥२९॥
यमि-मदि-गदोऽनुपसर्गात् ।५।१।३०॥ एभ्योऽनुपसर्गेभ्यो 'यः' स्यात् । यम्यम्, मद्यम्, गद्यम् । अनुपसर्गादिति किम् ? आयाम्यम् ॥३०॥
चरेराङस्त्वगुरौ ।५।११३१॥ अनुपसर्गाच्चरेराङ्पूर्वात् तु अगुरौ 'यः' स्यात् । चर्यः, आचर्यो देशः ।। अगुराविति किम् ? आचार्यः ॥३१॥
वर्योपसर्या-ऽवय-पण्यमुपेयर्तुमती-गी-विक्रेये ।५।१।३२॥ एते उपेयादिषु यथासङ्ख्यं 'यान्ता' निपात्यन्ते । वर्या कन्या, उपसर्या गौः, अवद्यं गर्हाम, पण्या गौः ॥३२॥
स्वामि-वैश्येऽर्यः ।५।१३३॥ अर्तेः स्वामि-वैश्ययो-'र्यः' स्यात् । अर्यः स्वामी वैश्यो वा, आर्योऽन्यः ॥३३॥
वी करणे ।५।११३४॥ वहेः करणे 'यः' स्यात् । वा शकटम् ॥३४॥
नाम्नो वदः क्यप् च 1५1१1३५॥ अनुपसर्गानाम्नः पराद् वदेः 'क्यप-यो' स्याताम् । ब्रह्मोद्यम्, ब्रह्मवद्यम् । नाम्न इति किम् ? वाघम् । अनुपसर्गादित्येव- प्रवाधम् ॥३५॥
__ हत्या-भूयं भावे ।५।१॥३६॥ अनुपसर्गानाम्नः परौ हत्या-भूयौ भावे 'क्यबन्ती' साधू स्तः । ब्रह्महत्या,