________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
॥ अर्ह ॥ कलिकालसर्वज्ञ-श्रीहेमचन्द्रसूरिभगवत्-प्रणीतं
स्वोपज्ञलघुवृत्तिसंवलितं श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥
प्रणम्य परमात्मानं श्रेयःशब्दानुशासनम् । आचार्यहमचन्द्रेण स्मृत्वा किञ्चित् प्रकाश्यते ॥१॥
अर्ह 191919॥ अहमित्येतदक्षरं परमेश्वरस्य परमेछिनो वाचकम्, मङ्गलार्थ शास्त्रस्याऽऽदी प्रणिदध्महे ॥१॥
सिद्धिः स्याद्वादात् 1919॥२॥ स्याद्वादाद् - अनेकान्तवादात् प्रकृतानां शब्दानां सिद्धिः-निष्पत्ति प्तिश्च वेदितव्या ॥२॥
लोकात 1919॥३॥ अनुक्तानां संज्ञानां न्यायानां च लोकाद्- वैयाकरणादेः सिद्धिर्वेदितव्या वर्णसमाम्नायस्य च ॥३॥ तत्र -
औदन्ताः स्वराः 1१1१४॥ औकारावसाना वर्णाः स्वरसंज्ञाः स्युः । अ आ इ ई उ ऊ ऋ ऋल ल ए ऐ ओ औ ॥४॥