________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
काला-ऽध्वनोाप्तौ ।२।२।४२॥ व्याप्तिरत्यन्तसंयोगः, व्याप्ती द्योत्यायां कालाध्ववाचिभ्याम् 'द्वितीया' स्यात् । मासं गुडधानाः, कल्याणी, अधीते वा । क्रोशं गिरिः, कुटिला नदी, अधीते वा । व्याप्ताविति किम् ? मासस्य मासे वा व्यहं गुडधानाः । क्रोशस्य क्रोशे वा एकदेशे कुटिला नदी ॥४२॥
सिद्धौ तृतीया ।२।२।४३॥ सिद्धी-फलनिष्पत्ती घोत्यायां कालाध्ववाचिभ्यां टा-भ्याम्-भिस्लक्षणा 'तृतीया' यथासंख्यमेक-द्वि-बही स्यात् । मासेन मासाभ्यां मासैर्वाऽऽवश्यकमधीतम् । क्रोशेन क्रोशाभ्यां क्रोशैर्वा प्रामृतमधीतम् । सिद्धाविति किम् ? मासमधीत आचारो नानेन गृहीतः ॥४३॥
हेतु-कर्तृ-करणेत्थम्भूतलक्षणे ।२।२।४४॥ फलसाधनयोग्यो हेतुः, कंचित्रकारमापत्रस्य चिह्नमित्थम्भूतलक्षणम् ‘हेत्वादिवृत्तेम्निस्तृतीया' स्यात् । धनेन कुलम्, चैत्रेण कृतम्, दात्रेण लुनाति, अपि त्वं कमण्डलुना छात्रमद्राक्षीः ? ॥४४॥
सहार्थे ।२।२।४५॥ सहार्थे-तुल्ययोगे विद्यमानतायां च गम्यमाने 'नाम्नस्तृतीया' स्यात् । पुत्रेण सहाऽऽगतः स्थूलो गोमान् ब्राह्मणो वा ।।
एकेनापि सुपुत्रेण, सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रै, भरि वहति गर्दभी ॥१॥ ॥४५।।
यद्भेदैस्तदाख्या २२२४६॥ यस्य भेदिनो भेदैः प्रकारैस्तद्वतोऽर्थस्याख्या - निर्देशः स्यात् तद्वाचिन'स्तृतीया' स्यात् । अक्ष्णा काणः, पादेन खजः, प्रकृत्या दर्शनीयः । तद्वद्ग्रहणं किम् ? अक्षि काणं पश्य । आख्येति प्रसिद्धिपरिग्रहार्थम्,