________________
२६०
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
एभ्यः परस्य 'क्वसोरादिरिट् वा' स्यात् । जग्मिवान्, जगन्वान्; जजिवान्, जघन्वान्; विविदिवान्, विविद्वान्; विविशिवान्, विविश्वान्; ददृशिवान्, ददृश्वान् ॥८३॥
सिचोऽः ।४।४।८४॥ 'अओः सिच आदिरिट्' स्यात् । आसीत् ॥८४॥
धूग-सुस्तोः परस्मै ।४।४१८५॥ 'एभ्यः परस्मैपदे सिच आदिरिट् स्यात् । अधावीत, असावीत्, अस्तावीत् । परस्मै इति किम् ? अघोष्ट ॥८५॥
यमि-रमि-नम्यातः सोऽन्तश्च ॥४८६॥ एभ्य आदन्तेभ्यश्च ‘परस्मैपदे सिच आदिरिट् स्यात्, एषां च सन्तः । अयंसीत्, व्यरंसीत्, अनंसीत्, अयासिष्टाम् ॥८६॥
ईशीडः से-वे-स्व-ध्वमोः ।४।४८७॥ आभ्याम् 'वर्तमानासेध्वयोः, पञ्चमीस्वध्वमोश्चादिरिद् स्यात् । ईशिषे, इशिध्वे, ईशिष्व, ईशिध्वम् ईडिषे, ईडिध्वे, ईडिष्व, ईडिध्वम् ।।८७॥
रुत्पञ्चकाच्छिदयः ।४४१८८॥ रुदादेः पञ्चतः परस्य 'व्यजनादेः शितोऽयकारादेरादिरिट्' स्यात् । रोदिति, स्वपिति, प्राणिति, श्वसिति, जक्षिति । अयिति किम् ? रुयात् । शित इति किम् ? रोत्स्यति, स्वप्स्यति ॥८॥
दि-स्योरीटू ।।।४।८९॥ रुत्पञ्चकात् 'दिस्योः शितोरादिरीट्' स्यात् । अरोदीत्, अरोदीः ॥८९॥
अदचाऽटू ।४।४९०॥ अत्ते रुत्पञ्चकाच 'दिस्योः शितोरादिरट् स्यात् । आदत, आदः; अरोदत,